Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 98
________________ (66) फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्धर्मसिद्धौ सतां मता ॥ २१९ ॥ 46 " फलावञ्चकयोगस्तु चरमो योगोत्तमः । किंभूत इत्याह एव " अनन्तरोदितेभ्यः “ नियोगतः " अवश्यंतया " सानुबन्धफलावाप्तिः " तथा सदुपदेशादिना " धर्मसिद्धौ " विषये " सतां मता " इति ॥ एवमेतेषां स्वरूपमभिधाय प्रकृतयोजनमाह । कुलादियोगिनामस्मान्मत्तोऽपि ' जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ।। २२० ।। कुलादियोगिनामुक्तलक्षणानामस्माद्योगदृष्टिसमुच्चयान्मत्तोऽपि सकाशाज्जड धीमतामन्येषाम् । किमित्याह " श्रवणात् पक्षपातादेः " पक्षपातशुभेच्छादेः पक्षपात शुभेच्छादे: "उपकारोऽस्ति लेशतः " तथा वीजपुष्टा ॥ " श्रवणेन 66 कः पक्षपातमात्रा दुपकार इत्याशङ्कापोहायाह । तात्त्विकः पक्षपातच भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोखि ॥। २२१ ।। ताविकः पक्षपातश्च परमार्थिक इत्यर्थः । भावशून्या प्रतिक्रिय (इतिक!) योरिवेत्याह " भानुखद्योतयोरिव " महदन्तरमित्यर्थः ॥ तथा चाह । खद्योतकस्य यत्तेजस्तदत्यं च विनाशि च । ? A omits सद्ध्य Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 96 97 98 99 100