Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 96
________________ ( ८६) तथेच्छादिचतुर्विधाः प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥ एतेषां विशेषलक्षणमाह । तत्कथाप्रीतियुता तथाविपरिणामिनी। यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ २१३ ।। ___ तद्वत्कथामीतियुता यमवत्कथाप्रीतियुता । तथाविपरिणामिनी तद्भावस्थिरत्वेन । यमेतलक्षणेषु । इच्छा अवसेयेह यमचक्र । इयं च प्रथमो यम एव तु, अनन्तरोदितलक्षणेच्छैवेच्छायम इति कृत्वा ॥ तथा । सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥ २१४ ॥ सर्वत्र सामान्येन शमसारं तूपशमसारमेव यत्क्रियाविशिष्टं यमपालनं प्रत्तिरिह विज्ञेया यमेषु द्वितीयो यम एव तत्पत्तियम इत्यर्थः॥ विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥ २१५ ॥ १ A omits from किंपयन्ता, D omits इच्छायमाः इति ॥ २८ यत ३ D तु ४BC omit Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100