Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 95
________________ (८ ) प्रवृत्तचक्रास्तु पुनः किंविशिष्टा भवन्तीत्याह " यमद्वयसमाश्रयाः" इच्छायमप्रवृत्तियमाश्रया इत्यर्थः “शेषद्वयार्थिनः" स्थिरयमसिद्धियमद्वयार्थिन इत्युक्तं भवति । अत्यन्तं सदुपायप्रत्त्येति । अत एवाह " शुश्रूषादिगुणान्विताः" शुश्रूषाश्रवणग्रहणधारणविज्ञानेहापोहतत्वाभिनिवेशगुणयुक्ताः ।। तथा । आद्यावञ्चकयोगाच्या तदन्यदयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ।। २११ ।। आद्यावश्चकयोगाच्या हेतुभूतया तहन्यद्वयलाभिनः क्रियावञ्चकफलावश्चकद्वयलाभिनः, तदवन्थ्यभव्यतयैवंभूताः । किमित्थाह' " अधिकारिणः” । कस्येत्याह । योगप्रयोगस्याधिकृतस्येत्येवं तद्विदो योगविदः । " अभिदधति " इति शेषः ।। उपन्यस्तयमादिस्वरूपमाह। इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः मताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥ २१२ ॥ इह लोके ऽहिंसादयो धर्माः पञ्च संख्यया सुप्रसिद्धाः सर्वतन्त्रसाधारणत्वेन यमा उपरमा प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति सतां मुनीनाम् । किपर्यन्ता इत्याह " अपरिग्रहपर्यन्ताः" "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा गमाः"(२-३० पा) इति वचनात्। १ A onits आह २ Cविकारिणः ३ B C omit प्रत्तियमाः स्थिरयमाः सिद्धियमा Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 93 94 95 96 97 98 99 100