Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 92
________________ (८२) योगिज्ञानं तु' योगिज्ञानमेव प्रमाणं चेदत्र । एतदाशंक्याह " तदवस्थान्तरं तु" योग्यवस्थान्तरमेव " तत्" योगिज्ञानम् । ततः किमित्येतदाशंक्याह "भ्रान्तमेतत्ल्यात्" योगिज्ञानं, "अन्यथा" अभ्रान्तत्वे ऽस्य । किमित्याह "सिद्धसाध्यता" अवस्थाभेदोपपत्तेरिति ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः । तच “सिद्धस्वरूपव्याधिमुक्तः पुमान् लोके " इत्याद्युपन्यासात् । तत्र । व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥ २०२ ॥ व्याधितः संजातव्याधिरेव, तदभावो वा तदन्यो वा व्याधितान्यो वा तत्पुत्रादिर्यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि सन्नीत्या सन्न्यायेन कदाचिदुपपद्यत इति दृष्टान्तः ॥ दार्टान्तिकयोजनमाह । संसारी तदभावो वा तदन्यो वो तथैव हि । मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति तदिदः ॥२०॥ संसारी पुरुषः । तदभावो वा पुरुषाभावमात्रमेव । तदन्यो वै. कान्तलक्षणः । तथैव हि यथा दृष्टान्ते । किमित्याह " मुक्तो ऽपि हन्त नो मुक्तो मुख्यवृत्त्या " त्रयाणामपि तत्प्रवृत्तिनिमित्ताभावात् " इति तद्विदः " मुक्तविद इत्थमभिदधतीति ।। कथं तर्हि मुक्तव्यवस्थेत्याह । ? B omits २ A udds संसारी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100