Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 91
________________ (८१ ) दिक्षा विद्यामलभवाधिकाराद्यात्मभूत सहज वस्तुसत् । तत्तस्मान्मुख्यमनुपचरितमेवास्यात्मनोऽनिवर्तत इति । किंभूतं तदित्याह “ प्रधानादिनतेः " प्रधाननयादिपरिणतेः २ " हेतुः " कारणम् । तदभावादिक्षायभावान्न तन्नतिन प्रधानादिपरिणतिर्मुक्तात्मन इति ।। अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य संभवः ॥ १९९ ॥ इत्थं चैतदङ्गीकर्तव्यं, अन्यथैवमनभ्युपगम्यमाने स्यादियं प्रधानादिनतिनित्यं सदैव । ततः किमित्याह " एषा च" प्रधानादिनतिः "भव उच्यते " संसारोऽभिधीयते, एतन्नतौ तदात्मकमहदादिभावात् । एवं चोक्तनीत्या भवनित्यत्वे सति कथं मुक्तस्य संभवः ?। नैवेत्यर्थः ।। अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥ २००॥ अवस्था तत्त्वतः परमार्थेन नो चेत्पूर्वापरभावेन । तदाशंक्याह " ननु तत्प्रत्ययः" अवस्थाप्रत्ययः । कथं " निबन्धनाभावेन । स्यादेतत् । तद्भ्रान्तो ऽयमवस्थाप्रत्ययः । तत्किमनेनेत्येतदाशंक्याह "मानमत्र" भ्रान्तायां " न विद्यते " ॥ योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् । ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥२०१॥ १ । कथंभूतं २ A D omit नय ३ B owit: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100