Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 33
________________ ( २३ ) लेखना सत्पुस्तकेषु, पूजना पुष्पवस्त्रादिभिः, दानं पुस्तकादेः, श्रवणं व्याख्यानस्य, वाचना स्वयमेव, अस्योद्ग्रहो विधिग्रहणं, अस्यैव प्रकाशना गृहीतस्य भव्येषु, अथ स्वाध्यायो वाचनादिः, अस्यैव चिन्तना ग्रन्थार्थतः, अस्यैव भावनेति चैतद्गोचरैव योगवीजमिति योगः॥ तथा। बीजश्रुतौ च संवेगात्प्रतिपत्तिः स्थिराशया। तदुपादेयभावश्च परिशुद्धो महोदयः ॥ २९ ॥ बीजश्रुतौ च यथोक्तगोचरायां संवेगाच्छदाविशेषाप्रतिपत्तिः " एवमेतत् " इत्येवंरूपा स्थिराशया तथाविधचित्तप्रबन्धविस्रोतसिकाभावेन । तपादेयभावश्व बोजश्रुत्युपादेयभावश्च परिशुद्धः फलौत्सुक्याभावेन महोदयः । त एवानुषङ्गिकाभ्युदयतो निःश्रेयससाधनादिति ॥ एवमेतद्योगबीजोपादानं यथा जायते तथाभिधातुमाह एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत्कार्य न यत्कचित् ॥३०॥ एतदनन्तरोदितं योगबीजोपादानं भावमले तत्तत्पुहलादिसंबन्धयोग्यतालक्षणे क्षीणे सति न स्तोके किं तु प्रभूतपुद्रलपरावर्ताक्षेपके जायते हि प्रादुर्भवति नृणां पुंसाम् । प्राय एतेऽधिकारिण इति नृग्रहणं, अन्यथा चातुर्गतिकमेतत्पभूत एव क्षीणे नाल्प इत्याह "करोत्यव्यक्तचैतन्यः" हिताहितविवेकशून्यो बालः "न महत्कार्य" अर्थानुष्ठानादि " यत्कचित् " किं तु व्यक्तचैतन्य एवं करोति यदास्य क्षयोऽभिमतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100