Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 77
________________ ( ६७ ) न्दाय धीमतां तथा पापसखा लोके तदविनाभावेन देहिनां भोगविस्तरो नानन्दाय नानुपहत्य भूतानि भोगः सन् भवति भूतोपघाताच्च पापमिति भावना || धर्मभोगः सुन्दर इत्यप्याशङ्कापोहायाह । धर्मादपि भवन् भोगः प्रोयोऽनर्थाय देहिनाम् । चन्दनादपि संभूतो दहयेव हुताशनः ॥ १५८ ॥ धर्मादपि भवन् भोगो देवलोकादौ प्रायो बाहुल्येनानर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपभोगनिरासा - थे, तस्य प्रमादजीवत्वायोगात् अत्यन्तानवद्यतीर्थ करादिफल शुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह "चन्दनादपि संभूतः " तथा शैत्यपकृतेः । किमित्याह " दहत्येत्र हुताशनः " तथास्वभावत्वात् । प्राय एतदेव न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृतादाहासिद्धेः । सकललोकसिद्धमेतदिति ॥ तथा - । भोगात्तदिच्छा विरतिः स्कन्धभारापनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः ॥ १५९ ॥ भोगात्सकाशात्तदिच्छाविरतिर्भोगेच्छाविरतिस्तात्कालिकी' । किमित्याह " स्कन्धभारापनुत्तये " स्कन्धभारापतुत्यर्थ "स्कन्धा - न्तरसमारोपः " वर्तते । कुत इत्याह "तत्संस्कारविधानतः " तथाकर्मवन्धेनानिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छानिवृत्तेरित्युक्ता पञ्चमी १ A omits भोगेच्छाविरतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100