Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 75
________________ ( ६५ ) कृतं पर्याप्तमत्र व्यतिकरे प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना सांपतं तत्पुनः प्रकृतं 'पञ्चमी तावद्योगदृष्टिः" स्थिराख्या । किंविशिष्टेत्याह " महोदया" निर्वाणपरमफलेत्यर्थः । एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह । स्थिरायां दर्शनं नित्यं प्रत्याहारखदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥ १५२ ॥ स्थिरायां दृष्टौ दर्शनं बोधलक्षणं नित्यमप्रतिपाति निरतिचारायाम् । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पमनित्यमपि भवति, तथाभिचारभावात् । रत्नप्रभायामपि धूल्यादेरुपद्रवः प्रत्याहारवदेव च स्वविषयासंप्रयोगे स्वचि - तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः । तद्वदेतदर्शनं कृत्यं वन्दनादि । अभ्रान्तं क्रममधिकृत्य । अत एवानघमनतिचारत्वात् । एतदेव विशेष्यते " सूक्ष्मबोधसमन्वितं " ग्रन्थिभेदाद्वेद्यसंवेद्यपदोपपत्तोरिति ॥ बालधूलीगृह क्रीडातुल्यास्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाखिलैव हि ॥ १५३ ॥ बालधूलीगृह क्रीडा तुल्या प्रकृत्य सुन्दरत्वास्थिरत्वाभ्यामस्यां स्थिरायां दृष्टौ भाति धीमतां पुंसां, तमोग्रन्थिविभेदेन हेतुना भवचेष्टाखिलैव हि चक्रवर्त्यादिचेष्टारूपापि प्रकृत्य सुन्दरत्वादस्थिरत्वाच्च ॥ मायामरीचिगन्धर्वनगर स्वप्नसंनिभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः ॥ १५४॥ १ B adds महोदया. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100