Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 81
________________ ( ७१ ) दृष्टौ यतो भवेत् । अतस्तत्त्वसमावेशात्कारणात्सदैव हितोदयोऽस्यां दृष्टाविति ॥ प्रतिपादिता षष्ठी दृष्टिः । सांप्रतं सप्तम्युच्यते । ध्यान प्रिया प्रभावेन' नास्यां रुगत एव हि । तत्त्वप्रतिपत्तिता विशेषेण शमान्विता ॥ १६८ ॥ एवं सत्प्रवृत्तिपदावति पिण्डार्थः ॥ ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकवलनिर्जातं शमसारं सदैव हि ।। १६९ ।। ध्यानजं सुखमस्यां त्वधिकृतदृष्टावेव । किंविशिष्टमित्याह "जितमन्मथसाधनं" व्युदस्तशब्दादिविषयम् । एतदेव विशेष्यते "विवेकवलनिर्जातं” ज्ञानसामर्थ्योत्पन्नम् । अत एव " शमसारं सदैव हि " विवेकस्य शमफलत्वादिति । किं च । सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ १७० ॥ सर्व परवशं दुःखं तल्लक्षणयोगात्सर्वमात्मवशं सुखमत एव हेतोः । एतदुक्तं मुनिना समासेन संक्षेपेण लक्षणं स्वरूपं सुखदुःखयोरिति ॥ पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । १ B ध्यानप्रिया प्रभा प्रायो C ध्यानप्रिया प्रभा यो 2 BC omit Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100