Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 84
________________ (७४) रत्नादिनियोजने शिक्षितस्य सतः । तथाचारक्रियाप्यस्य योगिनः सैव भिक्षाटनादिलक्षणान्या भवति । कुत इत्याह " फलभेदतः" प्राक् सांपरायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥ तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥ १७९ ॥ तन्नियोगादत्ननियोगान्महात्मेह लोके कृतकृत्यो यथा भवेत्कश्चिद्रत्नवणिक् । तथायमधिकृतयोगी धर्मसंन्यासविनियोगात्सकाशान्महामुनिः कृतकृत्यो भवतीति ॥ तथा। द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते | केवलश्रीस्ततश्वास्य निःसपत्ना सदोदया ॥१८०॥ द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि मुख्योऽयं धर्मसंन्यास उपजायत उपचरितस्तु प्रमत्तसंयतादारभ्य, केवलश्रीस्ततश्च धर्मसंन्यासविनियोगादस्य योगिनो निःसपत्ना केवलश्रीः सदोदया प्रतिपाताभावेन ॥ सिंहावलोकितनीत्याधिकृतवस्तुनिर्धारणायाह । स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया। चन्द्रिकावच विज्ञानं तदावरणमभ्रवत् ॥ १८१ ॥ स्थितो न स्थापनीयः, शीतांशुवचन्द्रवज्जीव आत्मा प्रकृत्या त्मीयया भावशुद्धया तत्त्वशुद्धयेत्यर्थः । तथा वा चन्द्रिकावच्च ज्योस्नावच विज्ञानं केवलाद्युपमामात्रमेतत्तदावरणं ज्ञानावरणमभ्रवन्मेघपटलवदित्यर्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100