Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 86
________________ ( ७६ ) सर्वप्रकारेण " निवार्ण लभते परं" भावनिर्वाणमित्यर्थः॥ तत्रायं कीदृश इत्याह । व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न चनो मुक्तो व्याधिनाव्याधितो न च।१८५/ व्याधिमुक्तो व्याधिपरिक्षीणः पुमान् याशो भवतीति तादृशो ह्ययं नितो नाभावः अध्यातदीपकल्पोपमो न च नो मुक्तो व्याधिना मुक्त एव भव्यत्वपरिक्षयेणाच्याधितो न च पूर्व तयातद्भावादिति ॥ अमुमेवार्थ स्पष्टयन्नाह । भव एव महाव्याधिर्जन्ममृत्युविकारखान। विचित्रमोहजननस्तीत्ररागादिवेदनः ॥ ८६ ॥ भवः संसार एव महाव्याधिः । किविशिष्ट इत्याह "जन्ममृत्यु. विकारवान् " जरायुपलक्षणमेतत् । विचित्रमोहजननो मिथ्यात्वोदय भावेन तीव्ररागादिवेदनः रूयाद्यभिष्वङ्गभावेन ॥ मुख्योऽयमात्मनो ऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥ १८७ ॥ मुख्यो निरुपचरितोऽयं भवव्याधिरात्मनो जीवस्य । किंभूत इत्याह "अनादिचित्रकर्मनिदानजः" द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः । कुत इत्याह " तथानुभवसिद्धत्वात् " जन्माउनुभवेन " सर्वप्राणभृतामिति" तिर्यप्रभृतीनामपि ॥ १ C सर्वाकारेण. २ B C omit व्याधि. ३ B ( marginal addition ) मिथ्यात्वोदयभावेन, Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100