Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 88
________________ एनमेवाह । अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाविरोधान्नित्योऽसौ स्यादसन्वा सदैव हि ॥ १९१ || ( ७८ ) अनन्तरक्षणाभूतिः प्राक्पश्चात्क्षणयोरभृतिरित्यर्थः । आत्मभूतेह यस्य तु वर्तमानस्य वादिनो वा । तस्य दोषमाह " तथा " अनन्तरक्षणाभूत्या " अविरोधात " कारणाद्वर्तमानभावेन । किमित्याह "नित्योऽसौ " वर्तमानः " स्यात् " तद्वत्सदातद्भावादिति । पक्षान्तरमाह " असन्वा सदैव हि " तयाविरोधेन तदग्रस्तत्वादिति ॥ परोक्तिमात्र परिहारायाह । स एव न भवत्येतदन्यथाभवतीतिवत् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ ९९२ ॥ ." स एव " इति भावपरामर्शः । न भवतीति चाभावाभिधा नमेतत् । किमित्याह " अन्यथाभवतीतिवत्' इति निदर्शनम् । विरुद्धं व्याहतम् । तन्नयादेव स हि स एवान्यथाभवतीत्युक्ते । एवमाह । कथमन्यथा भवति; अन्यथा चेद्भवति कथं स इति । एतच्च स एव न भवतीत्यत्रापि समानमेव । तथाहि । यदि स एव कथं न भवति, अभवत्वात्कथं स इति विरुद्धमेतत् | अभ्युच्चयमाह " तदुत्पच्यादितः " इत्यभावोत्पत्त्यादेः " तथा " विरुद्धमिति ॥ एतद्भावनयैवाह | १ B भवतीति च । २. A adds बौद्धः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100