Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 87
________________ ( ७७ ) एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसंगतः ॥ १८८ ॥ एतेन भवव्याधिना मुक्तश्च मुक्तो ऽपि सिद्धः । मुख्य एवोप. पद्यते प्रवृत्तिनिमित्तभावात् । तथा चाह " जन्मादिदोपविगमात् " कारणात्तददोपत्वसंगतस्तस्य दोपवतो ऽदोपत्वप्राप्तेरिति ॥ अमुमेवार्थ स्पष्टयन्नाह। तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः। तस्यैव हि तथाभावात्तददोषत्वसंगतिः ॥ १८९ ॥ तस्यात्मनः स्वभावोपमर्देऽपि सति जन्मादिभावविगमेन तत्तस्वाभाव्ययोगतस्तत्तत्स्वाभाव्यं तेन योगात् । तथाहि तस्येत्थंभूत एव स्वभावो येन स एव तथा भवतीति । ततश्च तस्यैव हि तथाभावाजन्मादित्यागतो जन्मायतीतत्वेन भावात् । किमित्याह " तददोषत्वसंगतिः " दोषवत एवादोपत्वप्राप्तिरित्यर्थः ॥ इत्थं चैतदङ्गीकर्तव्यमित्याह । स्वभावोऽस्य स्वभावो यनिजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः ॥ १९० ॥ स्वभावोऽस्यात्मनः स्वभावो यद्यस्मात् । किमुक्तं भवति "निजा सत्तैव तत्त्वतः " परमार्थेन । भावावधिरयं युक्तः स्वभावोऽनन्तरोदितः । नान्यथा युक्तः । कुत इत्याह " अतिप्रसङ्गतः " इति ।। १ ( गोगतस्तस्य तत्स्वाभाव्यं. २ A omits Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100