Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 80
________________ ७० ) भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् || १६४ || भोगानिन्द्रियार्थ संबन्धान्स्वरूपतः पश्यन्समारोपमन्तरेण तथा तेनैव प्रकारेण मायोदकोपमानसारान भुञ्जानोऽपि हि कर्माक्षिप्तानसङ्गः सन् प्रयात्येव परं पदं, ' अनभिष्वङ्गतया परवशाभावात् ॥ ૧ भोगतत्त्वस्य तु पुनर्न भवदधिलङ्घनम् । मायोदकावेशस्तेन यातीह कः पथा ।। १६५ ॥ भोगतत्त्वस्य तु भोगपरमार्थस्य पुनर्न भवोदधिलङ्घनं तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च "मायोदकदृढावेशः " तथाविपर्यासात् "तेन यातीह कः पथा" यत्र मायायामुदकबुद्धिः । स तत्रैव भवग्निो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽ पि हि तथा भोगजम्बालमोहितः || १६६॥ स मायायाकाशस्तत्रैव पथि भवद्विग्नः सन् । "यथा " इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे तथा तिष्ठत्यसंशयं भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥ मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्संदैव हि हितोदयः ॥ १६७॥ मीमांसाभावतः सद्विचारभावेन नित्यं सर्वकालं न मोहोऽस्यां १ B adds तथा २ ० ० वशभावात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100