Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 79
________________ अमुमेवाथै स्पष्टयन्नाह । अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥१६॥ अस्यामेव दृष्टौ कान्तायां नियोगेन धर्ममाहात्म्यात्कारणात्समाचारविशुद्धितो हेतोः । किमित्याह “प्रियो भवति भूतानां" प्रा. णिनां " धर्मकायमनास्तथा " भवतीति ॥ एतदेवाह । श्रुतधर्मे मनो नित्यं कायस्तस्यान्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥१६२।। श्रुतधर्म आगमे मनो नित्यं तद्भावनोपपत्तेः कायस्तु काय एवास्याधिकृतदृष्टिमतोऽन्यचेष्टिते सामान्येऽतस्त्वत एव कारणात् । आक्षेपकज्ञानात्सम्यगाक्षेपकज्ञानेन हेतुभूतेन भोगा इन्द्रियार्थसंबन्धा भवहेतवः संसारहेतवो न इति ॥ अमुमेवार्थ दृष्टान्तमधिकृत्याहमायाम्भस्तत्त्वतः पश्यन्ननुदिग्नस्ततो द्रुतम् । तन्मध्येन प्रयायेव यथा व्याघातवर्जितः ॥ १६३ ॥ मायाम्भस्तत्त्वतः पश्यन् मायाम्भस्त्वेनैवानुद्विग्नस्ततो मायाम्भस्तो द्रुतं शीघ्रं तन्मध्येन मायाम्भोमध्येन प्रयात्येव । " यथा" इत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघातासमर्थत्वादिति ॥ A omits, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100