Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 74
________________ परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः। तेहत्तदुपकारेऽपि यतितव्यं सदैव हि ।।१४८॥ परपीडा परबाधेह लोके सूक्ष्माप्यास्तां महतीति । किमित्याह "वर्जनीया" परित्यक्तव्या "प्रयत्नतः” सूक्ष्माभोगेन । तद्वत्मयत्नत एव तदुपकारेऽनि यतितव्यमनुष्ठानद्वारेण सदैव हीति ।। तथागुखो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥१४९॥ गुरवो मातापितृप्रमुखाः, देवता सामान्येनैव, विप्रा द्विजाः, यतयश्च प्रबजिताश्च तपोधनाः तद्वन्तः पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह " मुश्यत्नेन चेतसा" आज्ञाप्रधानेनेत्यर्थः ।। किं चपापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥१५०॥ पापवत्स्वपि चात्यन्तं लुब्धकादिषु स्वकर्मनिहतेष्वलमत्यर्थमनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥ उपसंहरनाहकृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना। तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100