Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 57
________________ (४७) दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥९५॥ दृष्टान्तमात्रं साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्राविशेषण यदेवमुक्तनीत्या सुलभं सितो पृथिव्याम् । एतत्प्रधानोऽ यं कुतर्कः केनापोद्यते वाध्यते केनचित्स्वनीतिविरोधादित्यर्थः ॥ __ इहैव दृष्टान्तमाह। दिचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनमुदाहरणमेतत्सामोपजातः । निरालम्बनतामालम्बनशून्यतां सर्वज्ञानानां मृगतृष्णादिगोचराणाम् । अविशेपेण सामान्येन साधयन्यथा केनापोद्यते ॥ न चैवं तत्वसिद्धिरित्याहसर्व सर्वत्र चाप्नोति यदम्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किंचन ॥ ९७ ॥ ___ सर्व निरवशेष साध्यमिति प्रक्रमः सर्वत्र च सर्वत्रैव वस्तुनि प्राप्नोति यद्यस्मात्कुतर्कादसमञ्जसमतिप्रसङ्गेन प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्रसारवत्वात् । तदनेन किंचन कुतर्केण ॥ इतश्चैतदेवमित्याहअतीन्द्रियार्थसिद्धयर्थ यथालोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न चासौ गोचरः कचित् ॥९॥ अतीन्द्रियार्थसिद्धयर्थं धर्मादिसिद्धयर्थमित्यर्थः । यथालोचित Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100