Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 68
________________ (५८) "निराबा" निर्गतमाबाधाभ्यः "अनामयं " अविद्यमानद्रव्यभावरोगम् । निष्क्रियं च कर्तव्याभावानिबन्धनाभावेन । परं तत्त्वमेवंभूतम् । यतो यस्मात् । जन्माययोगतो जन्मजरामरणायोगेन ॥ ऐदम्पर्यमाह । ज्ञाते निर्वाणतत्त्वे ऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥ १३० ॥ ज्ञातेर परिच्छिन्ने निर्वाणतत्त्वे ऽस्मिन्नेवंभूते ऽसंमोहेन बोधेन तत्त्वतः परमार्थतः । किमित्याह " प्रेक्षावतां" बुद्धिमतां " न तद्भतौ" न निर्वाणतत्त्वसेवायाम् । किमित्याह " विवाद उपपद्यते" तत्त्वज्ञानभेदाभावात् , अन्यथा प्रेक्षावत्त्वविरोधादिति ॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् ।। आसन्नो ऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ॥१३१॥ सर्वज्ञपूर्वकं चैतदधिकृततत्त्वं निर्वाणाख्यम् । नियमादेव यत्स्थितमसर्वज्ञस्य निर्वाणानुपपत्तेः । आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षण ऋजुरवक्रो मार्गः पन्थाः । तद्भेदः सर्वज्ञभेदो मतभेदलक्षणः । तत्तस्मात् । कथं भवेन्नैव भवतीति ॥ देशनाभेदः कथमित्याशंक्याह । चित्रा तु देशनैतेषा स्यादिनेयानुगुण्यतः। यस्मादेते महात्मानो भवव्याधिभिषग्वराः॥१३२॥ चित्रा तु नानाप्रकारा पुनर्देशना “नित्य आत्मा अनित्य इति १ A बन्धनभावेन २ C omits Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100