Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 70
________________ न च नैवमपि गुण इत्याह । यथाभव्यं च सर्वेषामुपकारो ऽपि तत्कृतः । जायते ऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ॥१३५॥ यथाभव्यं भव्यसदृशं च सर्वेषामुपकारोऽपि गुणो ऽपि तत्कृतो देशनानिष्पन्नः । जायते प्रादुर्भवति । अवन्ध्यताऽनिष्फलताप्ये मुक्तनीत्याऽस्याः देशनायाः सर्वत्र मुस्थितोति ॥ प्रकारान्तरमाह । यदा तत्तन्नयापेक्षा तत्कालादिनियोगतः ! ऋषिभ्यो देशना चित्रा तन्मूलैपापि तत्वतः ॥१३॥ यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य तत्कालादिनियोगतो दुःषमादियोगात् । ऋषिभ्यः कपिलादिभ्य एव देशना चित्रेति । न चेयमपि निर्मूलेत्याह " तन्मूलैपापि" सर्वज्ञदेशनामूलैषापि " तत्त्वतः " परमार्थेन तत्प्रवचनानुसारतस्तथाप्रवृत्तेरिति ।। प्रकृतर्षिभ्यो योजनमाह । तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ १३७ ॥ तदभिप्रायं सर्वज्ञाभिप्रायमज्ञात्वा । न ततः कारणात् । अर्वाग्दृशां सतां प्रमातृणाम् । किमित्याह " युज्यते तत्पतिक्षेपः " किं १ B C नीत्या स्यादेशनायाः २ A C प्रकृतिर्षि Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100