Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 69
________________ (५९) च" इत्यादिरूपा । एतेषां सर्वज्ञानां कपिलसुगतादीनां स्याद्भवद्विनेयानुगुण्यतस्तथाविधशिष्यानुगुण्येन कालान्तरापायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगास्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु ते ऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः । एवं देशना तु तथा गुणदर्शनेनादृष्टैरित्याह? " यस्मादेते महात्मानः" सर्वज्ञाः । किमित्याह " भवव्याधिभिषग्वराः " संसारव्याधिवैद्यप्रधानाः ॥ अतः किमित्याह । यस्य येन प्रकारेण बीजाधानादिसंभवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ॥ १३३॥ यस्य प्राणिनो येन प्रकारेण नित्यदेशनादिलक्षणेन वीजाधानादिसंभवस्तथा भवोद्वेगादिभावेन सानुबन्धो भवति तथा तथोत्तरगुणवृद्धया । एते सर्वज्ञाः । तथा तेन प्रकारेण । तस्य जगुगीतवन्तस्तत इति ॥ परिहारान्तरमाह। एकापि देशनैतेषां यद्दा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥ १३४ ॥ एकापि देशना तन्मखविनिर्गममधिकृत्य । एतेषां सर्वज्ञानां यद्वा श्रोतृविभेदतस्तथाभव्यत्वभेदेन । अचिन्त्यपुण्यसामर्थ्यात्परबोधाश्रयोपात्तकर्मविपाकादित्यर्थः । तथा नित्यादिप्रकारेण चित्रावभासत इति ॥ १B एवं देशना तु तद्गुणदर्श० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100