Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 37
________________ (२७ ) अपूर्वासनभावेन हेतुना । तथा व्यभिचारवियोगतः कारणात् । तत्त्वतः परमार्थेनापूर्वमेवेदं चरमं यथाप्रत्तमिति योगविदो विदुरेवं योगविदो जानत इति भावः ।। इहैव गुणस्थानयोजनमाहप्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥ प्रथममायं यद्गुणस्थानं मिथ्यादृष्ट्याख्यं सामान्येनोपवर्णितमागमे "मिच्छदिही सा सायणाइ" इति वचनात् । अस्यां तु तदवस्थायामित्यस्यामेव मुख्य निरुपचरितम् । कुत इत्याह "अन्वर्थयोगतः" एवगुणभावेन गुणस्थानोपपत्तेरित्युक्ता मित्रा ॥ अधुना तारोच्यते । तदत्राहतारायां तु मनाकस्पष्टं नियमश्च तथाविधः । अनुढेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥४१॥ तारायां पुनदृष्टौ । किमित्याह " मनाक्स्पष्ट दर्शनमिति, अतः “नियमश्च तथाविधः" शौचादिरिच्छादिरूप एवं "शौचसंतोपतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति वचनात् । तदत्र द्वितीययोगात्पतिपत्तिरपि मित्रायां खेतदभाव एव तथाविधक्षयो. पशमाभावात् । तथानुद्वेगो हितारम्भे पारलौकिके ऽवेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा द्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति ॥ अस्यां दृष्टौर यदन्यद्गुणजातं भवति तदाह१ Patanjali Y. S. II, 32 २ A. omits Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100