Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 49
________________ ( ३९ ) अवेद्यसंवेद्यपदं विपरीतमतो वेद्यसंवेद्यपदान्मतमिष्टम् । तथाहि । अवेद्यमवेदनीयं वस्तु स्थित्या न तथाभावयोगिसामान्येनाप्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः । तत्संवेधते । अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्धयोपप्लवसारया मृगतृष्णोदकवज्झायते यस्मिन्पदे तत्तथाविधम् । अत एवाह " भवाभिनन्दिविषयं " एतद्भवाभिनन्दी वक्ष्यमाणलक्षणः । समारोपसमाकुलमिति मिथ्यात्वदोपतो ऽपायगमनाभिमुखेन तथापि गलितमित्यर्थः ॥ भवाभिनन्दिलक्षणमाह । क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः || ७६|| क्षुद्रः कृपणः । लाभरतिर्याञ्चाशीलः । दीनः सदैवाकल्याणदर्शी । मत्सरी परकल्याणदुः स्थितः । भयवान्नित्यभीतः । शठो मायावी | अज्ञो मूर्खः । भवाभिनन्दी संसारबहुमानी । स्यादेवंभूतो निष्फलारम्भसंगतः सर्वत्रातत्त्वाभिनिवेशादिति ॥ यदि नामैवं ततः किमित्याह इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्संगादेव नियमाद्विषसंपृक्तकान्नवत् ॥ ७७ ॥ इत्येवं भवाभिनन्दिपरिणामे सति अस्यासत्परिणामत्वात् । असत्परिणामानुविद्धो बोधः सामान्येन न सुन्दरः । कुत इत्याह " तरसंगादेव " विवक्षितासत्परिणाम संबन्धादेव " नियमात् " निय मेन । किमिवेत्याह “ विषसंपृक्तकान्नवत् " इति निदर्शनमात्रम् ।। फलत एतदेवाह । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100