Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 50
________________ ( ४० ) Parisa एवेह विपर्यासपरा नराः । हिताहितविवेकान्धा खिद्यन्ते सांप्रक्षिणः ॥७८॥ एतद्वन्तोऽवेद्यपदवन्तः । अत एव कारणात् । इह लोके विपर्यासपरा विपर्यासप्रधाना नराः । किमित्याह " हिताहित विवेकान्धाः " एतद्रहिता इत्यर्थः । अत एवाह “ विद्यन्ते सांप्रतेक्षिणः " वर्तमानदर्शिनः सन्त इति ।। तथा च । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्दिजन्ते ऽतिमोहतः ॥ ७९ ॥ जन्म प्रादुर्भावलक्षणं, मृत्युः प्राणत्यागरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणा, रोगो विशुचिकायातङ्कः, शोक इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्धहादिपरिग्रहः, एभिरुपद्रुतं कदर्थितम् । वीक्षमाणा अपि पश्यन्तोऽपि सन्तः । भवं संसारं नोद्विजन्तेऽस्मादिति प्रक्रमः । अतिमहतो हेतोरिति ॥ तथाह्यमीषां किमित्याह कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत् सदा । दुःखे सुखधियाकृष्टा कच्छुकण्डूयकादिवत् ॥८०॥ कुकृत्यं प्राणातिपातारम्भादि कृत्यमाभाति मोहात्, कृत्यं चाहिंसामारम्भादि चाकृत्यवत्सदाभाति मोहादेव । दुःखसमारम्भादौ सुखधिया सुखबुद्धया | आकृष्टा आकर्षिता । किंवदित्याह "कच्छकण्ड्यकादिवत् " कच्छ पामा तस्याः कण्डूयकाः कण्डूयन्त इति कण्डकाः; आदिशब्दात्कुमिप्रतुद्यमानाग्निसेवक कुष्ठिपरिग्रहः || Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100