Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 53
________________ अवेद्यसंवेद्यपदमुक्तलक्षणमान्ध्यभावरूपम् । अत एवाह “दुगतिपातकृत् " दुर्गतिपातकरणशीलम् । सत्संगागमयोगेन विशिष्टसंगागमसंबन्धेनेत्यर्थः । एकवद्भावः पुरुषप्राधान्यख्यापनपरः । जेयमेतदवेद्यसंवेद्यपदं महात्मभिः पुंभिः,१ अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरो ऽप्यागम इति योगाचार्याः, अयोग्यनियोगासिद्धोरिति ॥ । अत एव जयलिङ्गान्याह । जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतो ऽत्यन्तं कुतर्कविषमग्रहः ॥ ८६ ॥ जीयमाने च नियमादेतस्मिन्नवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । तत्त्वतः परमार्थेन नृणां पुंसां निवर्तते स्वत आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् । अत्यन्तं नितरां सम्यग्ज्ञानयोगात्, आगमत्रामाण्यावगमात् । कुतर्कविषमग्रहो दृष्टापायहेतुत्वेन ग्रह इव ग्रहः॥ किंविशिष्टो ऽयमित्याहबोधरोगः शमापायः श्रद्धाभङ्गो ऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ।। ८७ ॥ बोधरोगस्तद्यथावस्थितोपघातभावात् । शमापायो ऽसदभिनिवेशजनकत्वात् । श्रद्धाभङ्ग आगमार्थाप्रतिपत्तेः । अभिमानकन्मिथ्याभिमानजनकत्वात् । एवंर कुतर्क आगमनिरपेक्ष इत्यर्थः । किमित्याह "चेतसः" अन्तःकरणस्य "भावशत्रुः " परमार्थरिपुः “अने ? B omits २।। पत्र Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100