Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 52
________________ ( ४२ ) पाशयन्तीत्याह “ पापल्या " ज्ञानावरणीयादिलक्षणया । जडा मन्दाः | कार्यमविचायैव तत्त्वतः परमार्थेन क्षणिककुसुखसक्ततयात्मानं पाशयन्तीति ॥ तथाहि धर्मवीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मषावस्य प्रयतन्तेऽल्पमेधसः ॥ ८३ ॥ धर्मबीजं धर्मकारणं परं प्रधानं प्राप्यासाद्य । किं तदित्याह "मानुष्यं " मानुपत्वं । केत्याह " कर्मभूमिषु " भरताद्यासु । किमित्याह न सत्कर्म " धर्माधानादिरूपायां " अस्य " धर्मबीजस्य " प्रयतन्तेऽल्पमेधसः " अल्पमतय इत्यर्थः ॥ 66 किं तर्हि - बडिशा मिपवत्तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टयं धिगहो दारुणं तमः ॥ ९४ ॥ बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् । तुच्छे ऽल्पे । कुसुखे दुष्टभोगजे दारुणोदये रौद्रविपाके समयपरिभाषेयम् । सक्ता गृध्राः । किमित्याह “ त्यजन्ति सच्चेष्टां " धर्मसाधनम् । कर्मदोषो ऽयमित्याह " धिगहो दारुणं तमः " कष्टमज्ञानमिति योऽर्थः ॥ उपसंहरन्नाह - अवेद्यसंवेद्यपदमान्भ्यं दुर्गतिपातकृत् । सत्संगागमयोगेन जेयमेतन्महात्मभिः ||८५|| ? AC D विडिंο Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100