Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 46
________________ ( ३६ ) बोधस्य नायमत्र तु नायं सूक्ष्मो बोधः । अत्र दीप्रायां दृष्टावधस्त्यासु च तत्त्वतो ग्रन्थिभेदासिद्धेरिति ॥ अवेद्यसंवेद्यपदं यस्मादासु तथोल्वणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ॥ ६७ ॥ अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्मादासु मित्राद्यासु चतसृषु दृष्टिषु तथोल्वणं तेन नित्यादिपदप्रकारेण प्रवलमुद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं पक्षिच्छायायां तद्धिया जलचरमवृत्त्याकारम् । अतः परं वेद्यसंवेद्यपदमासु न तात्त्विकमित्यर्थः, ग्रन्थिभेदासिद्धेरित्येतदपि चरमासु चरमयथाप्रवृत्त करणेनैवेत्याचार्याः || किमेतदेवमित्याहअपायशक्तिमालिन्यं सूक्ष्मबोधविबन्धकृत् । ततो ऽयं तत्तत्त्वे कदाचिदुपजायते ॥ ६८ ॥ अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वम् । किमित्याह " सूक्ष्मबोधविबन्धकृत " अपायहेत्वा सेवन क्लिष्टबीजभावेन । नैतद्वतो sपायशक्तिमालिन्यवतो ऽयं बोधः । तस्मात् । " तत्त्वे " इति तत्त्वविषये । कदाचिदुपजायते, अवन्ध्यस्थूर बोधबीजभावादित्यर्थः ॥ यस्मादेवम् अपायदर्शनं तस्माच्छ्रुतदीपान तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ।। ६९ ।। अपायदर्शनं दोषदर्शनं तस्माच्छ्रुतदीपादागमान तास्विकं न पारमार्थिकमस्येति योगः । तदाभालम्बनं तु परमार्थाभाविषयं पुनर्भ १ B adds नरकाद्यपायशक्तिमालिन्यं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100