Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 45
________________ ( ३५ ) अस्या एव विशेषतः परं फलमाह । गुरुभक्तिप्रभावेन तीर्थदर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ ६४ ॥ गुरुभक्तिमभावेन गुरुभक्तिसामर्थेन तदुपात्तकर्मविपाकत इत्यर्थः । किमित्याह " तीर्थदर्शनं मतं " भगवद्दर्शनमिष्टम् । कथमित्याह " समापत्त्यादिभेदेन " समापत्तिर्ध्यानतः स्पर्शना तया; आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापच्त्युपपत्तिपरिग्रहः । तदेवं विशिord " निर्वाणैकनिबन्धनं " अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः । इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाहसम्यग्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते ॥ ६५ ॥ सम्यगविपरीतेन विधिना हेत्वादिभेदेनेति हेतुस्वरूपफलभेदेन लोके विद्वत्समवाये यस्तत्त्वनिर्णयः परमार्थपरिच्छेदः । कुत इत्याह “ वेद्यसंवेद्यपदतः " वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात्' । सूक्ष्मबोधः स उच्यते निपुण इत्यर्थः ॥ इहैव विशेषतः प्रवृत्तिनिमित्तमाह । भवाम्भोधिसमुत्तारा कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ||६६ || भवाम्भोधिसमुत्ताराद्भव समुद्रसमुत्तारणाल्लोकोत्तरमवृत्तिहेतुतया । तथा कर्मवज्रविभेदतः कर्मवज्रविभेदेन विभेदतश्च पुनर्ग्रहणतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येनानन्तधर्मात्मकतत्त्वप्रतिपत्त्या सूक्ष्मत्वं निपुणत्वं १ C omits संवैध Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100