Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 43
________________ प्राणायामवती दीपा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥ ५७ ॥ प्राणायामवती चतुर्थाङ्गभावतः, भावरेचकादिभावात् । दीपा चतुर्थी दृष्टिः। न योगोत्थानवती, तथाविधप्रशान्तवाहितालाभेन । अलमत्यर्थम् । तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावन । सूक्ष्मबोधविवजिता निपुणबोधरहितेत्यर्थः ॥ भावरेचकादिगुणमाह । प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थ न धर्म प्राणसंकटे ॥५०॥ पाणेभ्योऽपीन्द्रियादिभ्यो गुरुधर्मो महत्तर इत्यर्थः । सत्यामस्यामधिकृतदृष्टौ दीपायामसंशयम् । एतत्कुत इत्याह "प्राणांस्त्यजति धर्मार्थ" तत्त्वोत्सर्गप्रवृत्त्या "न धर्म प्राणसंकटे" त्यजति तत्वोत्सर्गप्रवृत्त्यैव ।। अत्र प्रतिबन्धनमाह। एक एव सुहृद्धर्मो मृतमप्यनुयाति यः। शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ५९॥ एक एव सुहृद्धर्मो नान्यः, तल्लक्षणयोगात् । तदाह "मृत. मप्यनुयाति यः" इति " शरीरेण समं नाशं" व्ययं " सर्वमन्यत्तु गच्छति " स्वजनादि ॥ इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते ॥६० ॥ इन्थमेवं सदाशयोपेतः संस्तत्त्वश्रवणतत्पर एतत्प्रधानः प्राणेभ्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100