Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 42
________________ ( ३२ ) इहैव व्यतिरेकमा । श्रुताभावे ऽपि भावेऽस्याः शुभभावप्रवृत्तितः। फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४॥ _श्रुताभावेऽपि श्रवणाभावेऽपि भावे ऽस्याः शुश्रूषायाः किमित्याह "शुभभावप्रवृत्तितः" तद्भावस्यैव शुभत्वात् ? " फलं कर्मक्षयाख्यं स्यात् " वचननामाण्येन । एतच परबोधनिबन्धनं प्रधानवोधकारणं, वचनप्रामाण्यादेव ।। योगे ऽक्षेपगुणमाह । शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥ ५५ ॥ शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपो ऽस्यामधिकृतदृष्टी सत्यां कदाचन भवति । उपायकौशलं चापि तथाविधदेशाध्यासनादि चारु शोभनं तद्विषयं शुभयोगसमारम्भविपयं भवेदिति ॥ तथास्यामेव दृष्टावभ्युच्च यमाह । परिष्कारगतः प्रायो विधातोऽपि न विद्यते । अविघातश्च सावधपरिहारान्महोदयः ॥ ५६ ॥ परिष्कारगत उपकरणात इत्यर्थः। प्रायो वाहुल्येन । विधातो ऽपोच्छाप्रतिबन्धो न विद्यत अस्पो सत्यामिति । अविधातय किंभूतो भवतीत्याह "सावयपरिहारात् " प्रतिषिद्वपरिहारेण "महोदयः" अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥ उक्ता बला । सांगतं दीप्रामाह । ? 8 शुभभावत्वात् २ C स्यात्कदाचन Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100