Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(३०) नास्माकं महती प्रज्ञा संवादिनी स्वप्रज्ञाविकल्पिते विसंवाददर्शनात् । तथा सुमहान् शास्त्रविस्तरः, तत्तत्पत्तिहेतुत्वात् । । एवं शिष्टाः साधुजनसम्मताः प्रमाणमिह व्यतिकरे तस्मादित्येवमस्यां दृष्टौ मन्यते सदा यतैराचरितं तदेवर यथाशक्ति सामान्येन कर्तु युज्यत इत्यर्थः॥
उक्ता तारा । अधुना वलोच्यते । तदत्राहसुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥ १९ ॥
सुखासनसमायुक्तमिति स्थिरमुखासनवत् । वलायां दृष्टौ दर्शनं प्रागुक्तं दृढं काष्ठादिकणोपमामिति कृत्वा । परा च तत्वशुश्रूपा जिज्ञासा संभवति । न क्षेपो योगगोचरः, तदनुद्वेगज इति कृत्वा ।।
अमुमेवार्थमाह । तस्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच सर्वत्र स्थितमेव सुखासनम् ॥ ५० ॥
तस्यामधिकृतदृष्टौ सत्यामसत्तृष्णा स्थितिनिबन्धनातिरिक्तगो. चरा प्रकृत्यैव स्वभावेनैव प्रवर्तते, विशिष्टशुद्धियोगात् । तदभावा चासत्तृष्णाभावाचः सर्वत्र व्याप्त्या स्थितमेव मुखासनं तथापरिभ्र मणाभावेन ॥
एतदेवाह
? A तत्तत्पत्तिहेतुभूतः। २ B omits ३ C onjts असत्तृष्णाभावाच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100