Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 44
________________ ( ३४ ) परमं धर्म बलादेव प्रपद्यते, तत्स्वभावत्वात् । स्वत एव न योगो त्थानमस्य ।। तच्छ्रवणगुणमाह । क्षाराम्भस्त्यागतो यन्मधुरोदकयोगतः । बीजं प्ररोहमाधत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥ ६१ ॥ क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंचित्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः, तत्त्वश्रुतेर चिन्त्य - सामर्थ्यान्महाप्रभावत्वादिति ॥ अस्यैव भावार्थमाह । क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥ ६२ ॥ क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतोऽतत्त्वश्रवणरूपोऽपि मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥ अस्या एव गुणमाह । अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकयहितावहम् || ६३ || अतस्त्वित्यत एव तच्छ्रुतेः' । किमित्याह “नियमादेव कल्याणं” परोपकारादि " अखिलं नृणां " तत्वश्रुतेस्तथाविधाशयभावात् । तदेव विशिष्यते । गुरुभक्तिसुखोपेतं कल्याणं तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात् । अत एवाह "लोकद्वय हितावहं " अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥ १ B तत्रश्रुतेः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100