Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 38
________________ भवत्यस्यां तथाच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद्वहुमानश्च योगिषु ॥ ४२ ॥ भवत्यस्यां दृष्टौ । तथा तेन प्रकारेण । अच्छिन्ना भावप्रतिबन्धसारतया । प्रीतिर्योगकथास्वलमत्यर्थ तथा शुद्धयोगेष्वकल्कमधानेषु नियमेन बहुमानश्च योमिषु भवति ॥ न केवलमयम् । कि चयथाशक्तयुषचारश्च योगवृद्धिफलप्रदः। योगिनां नियमादेव तदनुग्रहधीयुतः ॥ ४३ ॥ यथाशक्त्युक्ते शक्त्यौचित्येनेत्यर्थः । किमित्याह " उपचारश्च" ग्रासादिसंपादनेन यथोक्तयोगिविति प्रक्रमः । स एव विशिष्यते । "योगटद्धिफलमदः" तत्सम्यक्परिणामेन “योगिनां नियमादेव" नान्यथा तद्वियातहेतुरिति "तदनुग्रहधीयुतः" उपचारसंपादकानुग्रहबुद्धियुक्त इत्यर्थः ॥ अयमेव विशिष्यतेलाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः। क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ।। ४४ ॥ लाभान्तरफलश्चास्योपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । हितोदयः पूर्ववत् । क्षुद्रोपद्रवहानिश्च भवति । अत एव व्याध्यादिनाशः। शिष्टसम्मतता तथा । अत एवास्यातिसुन्दरो बहुमानः ॥ तथा । mamrpan ? B omits Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100