Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 18
________________ ख्यज्ञानयुक्तः । किमित्याह " सामर्थ्ययोगः" सामर्थ्यप्रधानो योगः सामर्थ्य योगः प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते; अयं " अवाच्यो ऽस्ति" तद्योगिनो संवेदनसिद्धः " सर्वज्ञत्वादिसाधनं" आक्षेपेणातः सर्वज्ञत्वसिद्धेः । आह । इदमपि मातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गः । न चैतत्केवलं, सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्धयाख्यपदसंप्राप्तिहेतुभेदास्तत्वतः१ शास्त्रादेवावगम्यन्त इति ॥ __ अत्रोच्यते । नैतच्छ्रतं न केवलं न च झानान्तरमिति, रात्रि दिवारुणोदयवत् । अरुणोदयो हि न रात्रि दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान श्रुतं क्षायोपशमिकत्वादशेपद्रव्यपर्यायाविषयत्वान केवलमिति । इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः । सामर्थ्ययोगभेदाभिधानायाहविधायं धर्मसंन्यासयोगसंन्याससंज्ञितः । सायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ ९ ॥ द्विधा द्विभकारो ऽयं सामर्थ्ययोगः । कथमित्याह " धर्मसंन्यासयोगसंन्याससंज्ञितः" इति । धर्मसंन्याससंज्ञा संजातास्येति धर्मः १A सिद्धाख्य० २ D पार्यते ३ । धर्मसंन्यासो यो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100