Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 28
________________ (१८) "विधातः" प्रतिबन्धः " दिव्यभावतः" जन्मनः सकाशात् “चरणस्य " चारित्रस्य " : पजायते' तथाविधौदयिकभावयोगेन तदभावे तु पुनस्तत्रैव प्रवृत्तिः स्वापविगमे ऽनवरतप्रयाणे च? कन्यकुब्जगन्तुगमनप्रवृत्तिवत् ॥ इदानीं प्रतिदृष्टिसाकल्येन योगयोजनामुपदर्शयन्नाहमित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥ २१ ॥ मित्रायां दृष्टौ । दर्शनं मन्दं स्वल्पो बोधः, तृणाग्निकणोद्योतेन सदृशः । यम अहिंसादिलक्षण इच्छादिकस्तथा यथोक्तं "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः "। एते चेच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा इति वक्ष्यति । अखेदो देवकार्यादौ, आदिशब्दाद्गुरुकार्यपरिग्रहः । तथा तथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्रापि तु प्रवृत्तिरेव शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्चामत्सरश्च । अपरत्र त्वदेवकार्यादौ तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावे ऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्यस्याशयः । अतोऽस्यापरत्र न चिन्ता तद्भावेऽपि करुणांशबीजस्यैवेपत्स्फुरणमिति ॥ अस्यां दृष्टौ व्यवस्थितो योगी यत्साधयति तदभिधित्सयाहकरोति योगबीजानामुपादानमिहस्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥ २२ ॥ करोति तत्त्वकरणेन । योगबीजानां वक्ष्यमाणलक्षणानाम् । उ. ? A omits Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100