Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 13
________________ ( ३ ) शिष्टं वीरमित्याह “जिनोत्तमं " इति वस्तुविशेषणम् । इह रागादिजेतृत्वात्सर्व एव विशिष्टश्रुतधरादयो जिना उच्यन्ते । तथा । श्रुतजिनाः, अवधिजिनाः, मनःपर्यायज्ञानजिनाः केवलिजिनाश्च । तेषामुत्तमः केवलित्वात्तीर्थ करत्वाच्च । अनेन भगवतस्तथा भव्यत्वाक्षिप्तवरबोधिलाभगर्भाद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थंकर नामक - 1 विपाकफलरूपां परंपरार्थसंपादनीं कर्मकायावस्थामाह । अयमेव विशिष्यते " अयोगं " इति । कायवाङ्मनः कर्म योगः, अविद्यमानयोगोऽयोगः, तम् । अनेन च भगवतः शैलेश्यवस्थोत्तरकालभाविनीं समस्त कर्मावगमरूपां तथाभव्यत्व परिक्षयोद्भूत परमज्ञानसुखलक्षणां कृतकृत्यतया निष्ठितार्थी परमफलरूपां तत्त्वकायावस्थामिति । अत एवाह “ योगिगम्यं " इतेि । योगिनां गम्यो योगिगम्यः, तम् । योगिनो ST श्रुतजिनादयो गृह्यन्ते । अनेनापि भगवतो ज्योगिमिय्यादृष्टिगम्यत्वव्यवच्छेदमाह । एतज्जिज्ञासाया अपि चरमयथाप्रवृत्त करणभावित्वादन्यदा तदनुपपत्तिरिति । "वीरं" इतेि चान्वर्थसंज्ञेयं, महावीर्यविराजनात्तपः कर्मविदारणेन कपायादिशत्रु जयात्केवल श्री स्वयंग्रहणेन र विक्रान्तो वीरः तम् । इत्थमनेन यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद्भावस्तवस्येष्टदेवतास्तवमा हेति । इष्टत्वं च गुणतो गुणप्रकर्षरूपत्वाद्भगवतः देवतात्वं च परमगत्यवाप्त्यति । " वक्ष्ये समासेन योगं तद्दृष्टिभेदतः" इत्यनेन तु प्रयोजनादित्रयमाह । कथमित्युच्यते " वक्ष्ये " अभिधास्ये "योग" मित्रादिलक्षणं, “समासेन " संक्षेपेण, विस्तरेण तु पूर्वाचार्यैरेवायमुक्तोऽप्युत्तराध्ययनयोग निर्णया दिपु, " १ A C व्यथामवृत्ति ० २ B श्रीरूपग्रहणेन ० ३ B द्वावस्तव रूपस्येष्टदेवता | C०द्वावस्वस्तत्र स्येष्टदेवता ० YA omita Jain Education International For Private & Personal Use Only . Q www.jainelibrary.orgPage Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100