________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् द्वितीय
उद्देशकः
५९० (B)
܀܀܀܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
गीतार्थानामसति अभावे, यदि वा सर्वस्यापि साधोरशिवादिकारणतोऽभावे कारणपरिणत्ति कारणवशत एकाकिना जातेन परिज्ञाप्रत्याख्यानं भक्तपानस्य कृतम् । ततस्तस्य कृतभक्तप्रत्याख्यानस्य गीतार्थानामभावे, यदि वा कारणत एकस्यापि साधोरभावे सीदतो योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीया । कथना धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्तव्या । तथा आलोकम् आलोचनं स दापयितव्यः । यदि कथमपि चिरजीवनेन भयमुत्पद्यते, यथा 'नाद्यापि म्रियते किमपि भविष्यति ? इति न जानीमः' इति तस्य धीरापना कर्तव्या ॥ ११५३।।
जइ वा न निव्वहेज्जा, असमाही वा से तम्मि गच्छम्मि । करणिज्जऽन्नत्थगते, ववहारो पच्छ सुद्धो वा ॥ ११५४ ॥
१. योग पा° पु. प्रे. ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[बृ.क.भा. ६२८४]
**
सूत्र १८
गाथा ११५२-११५६ अर्थजाते
सामाचारी
५९० (B)