Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७७८ (B)|
पारिणामिकी चासौ बुद्धिश्च पारिणामिकबुद्धिः, तया उपेतो युक्तो भवति श्रमणसङ्घः। तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतोपदेशबलेन सम्यग्निश्चितं, तत्करणशीलः कार्ये निश्चितकारी, तथा सुष्ठु देश-काल-पुरुषौचित्येन श्रुतबलेन च परीक्षितं सुपरीक्षितं तस्य कारकः सङ्घः, न यथाकथञ्चनकारी ॥ १६६१ ॥
किह सुपरिच्छियकारी, एक्कसि दो तिण्णि वावि पेसविए। नवि निक्खिवए सहसा, को जाणइ नाऽऽगतो केण? ॥ १६६२ ॥
कथं केन प्रकारेण सुपरीक्षितकारी ? उच्यते-इहार्थिना सङ्घप्रधानस्य समीपे सङ्घसमवायो याचितस्तेन चाऽऽज्ञप्तः सङ्घमेलापककारी 'सङ्घस्त्वया मेलनीयः'। तत्र च प्रत्यर्थी कुतश्चित्कारणान्नाऽऽगच्छति ततो मानुषं प्रेषणीयं, सङ्घस्त्वां शब्दयति, स नाऽऽगतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति, तथापि नाऽऽगच्छति तत्राऽपरिणामिका ब्रुवते- उद्घाट्यतामेष, गीतार्थास्त्वाहुः-पुनः प्रेष्यतां गीतार्थं मानुषं, केन कारणेन नाऽऽगच्छति ?। किं परिभवेन उत भयेन ? तत्र यदि भयेन नाऽऽगच्छति ततो वक्तव्यं -'मा भैस्त्वं परित्राणकारी खलु
गाथा |१६६०-१६६६
सत्य एव व्यवहारः कर्तव्यः
७७८ (B)
For Private and Personal Use Only

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582