Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
एतैः अनन्तरगाथोक्तैः स्थिरपरिपाटीकत्वादिभिर्गुणैः सम्प्रयुक्त एतद्गुणसम्प्रयुक्तः सङ्घमध्ये व्यवहरति। एतद्गुणविप्रमुक्ते पुनर्व्यवहरति सुमहती आशातना भवति। न केवलमाशातना, व्रतलोपश्च ॥ १७०९॥
तृतीय
उद्देशकः ७९१ (B)
तथा चाऽऽहआगाढमुसावादी, बितियतईए य लोवति वए ऊ। माई य पावजीवी, असुईलित्ते कणगदंडे ॥ १७१० ॥ इति व्यवहारभाष्ये पट्टबद्धोद्देशकस्तृतीयः परिसमाप्तः ॥३॥
आगाढे कुलकार्ये गणकार्ये सङ्घकार्ये वा अनाभाव्यस्याऽऽभाव्यस्य आभाव्यस्य वाऽनाभाव्यस्याज्ञानतया रागद्वेषाभ्यां वा भणनाद् मृषा वदतीत्येवंशील आगाढमृषावादी द्वितीयतृतीये मृषावादाऽदत्तादानविरतिरूपे व्रते लोपयति। तत्र द्वितीयव्रतलोपो मृषावादभणनात् तृतीयव्रतलोपोऽनाभाव्यं ग्राहयतोऽनुमतिदोषभावात् तु शब्दात्शेषाण्यपि व्रतानि लोपयति, एकव्रतलोपे सर्वव्रतलोप इति वचनात्। मायी सूत्रमुल्लङ्घय शठोत्तरैर्व्यवहारकरणात्। पापजीवी दुर्व्यवहारकरणाय परदत्ताहाराद्युपजीवनात्। अत एवाऽशुचिः मृषावादित्वादि
गाथा १७०५-१७१० व्यवहारकरणविधिः
७९१ (B)
For Private and Personal Use Only

Page Navigation
1 ... 577 578 579 580 581 582