________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः ७७९ (B)
आश्वासयतीति आश्वासो भीतानामाश्वासनकारी भगवान् श्रमणसङ्घः, विश्वासयतीति विश्वासो व्यवहारे वञ्चनाया अकर्ता, सर्वत्र समतया शीतगृहेण समः शीतगृहसमः। तथा मातापितृभ्यां समानो मातापितसमानः, पुत्रेषु मातापितराविव व्यवहारार्थिष्वविषमदर्शी। तथा सर्वेषां प्राणिनां शरणं भगवान् सङ्घः। तस्मान्मा भैस्त्वमिति ॥१६६४॥ इदं च परिभावयन् संघोऽव्यवहारं न करोति __ सीसो पडिच्छओ वा, आयरिओ वा न सोग्गइं नेति।
जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ १६६५ ॥ शिष्यः स्वदीक्षितः, प्रतीच्छकः परगणवर्ती सूत्रार्थतदुभयग्राहकः, आचार्यो वाचनाचार्यादिको न सुगतिं नयति, किन्तु ये सत्यकरणयोगा: संयमानुगतमनोवाक्कायव्यापारास्ते संसाराद् विमोचयन्ति ॥ १६६५॥ सीसो पडिच्छओ वा, आयरिओ वा वि एते इहलोए। जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ १६६६ ॥
गाथा |१६६०-१६६६
सत्य एवं व्यवहारः कर्तव्यः
७७९ (B)
For Private and Personal Use Only