Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 572
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८८ (A) . तथा चाऽऽहपडिणीय मंदधम्मो, जो निग्गतो अप्पणो सकम्मेहिं। न हु सो होइ पमाणं, असमत्तो देसनिग्गमणे ॥ १६९६ ॥ आत्मनः परेषां च प्रतिकूलः प्रत्यनीकः। धर्मे मन्दो मन्दधर्मः, राजदन्तादिदर्शनाद् | धर्मशब्दस्य परनिपातः, संयमे शिथिल इत्यर्थः । तथा य आत्मनः स्वकर्मभिः स्वव्यापार्निर्गतो विहारक्रमेण, न तु गुरुभिरनुज्ञातः, सः न हु नैव भवति प्रमाणम्, असमाप्तश्च स भवति देशनिर्गमने नानादेशेषु विहारक्रमकरणे ॥ १६९६ ॥ आयरियादेसा धारिएण अत्थेण गुणिय-झरिएण। तो संघमज्झयारे, ववहरियव्वं अणिस्साए ॥ १६९७ ॥ यत एवं विपक्षे दोषास्तस्मात्सङ्घमध्यकारे, कारशब्दोऽत्र स्वरूपमात्रे सङ्घमध्ये || व्यवहर्त्तव्यमर्थेन। किंविशिष्टेन? इत्याह-आचार्यादेशाद् आचार्यकथनाद् धारितेन, एतेन सम्प्रदायागतत्वमावेदितम्। तथा गुणितेन अनेकशः परावर्तितेन झरितेन कश्मलक्षरणतः स्थिरतया च स्थितसारेण। एवम्भूतेनाप्यर्थेन व्यवहर्तव्यमनिश्रया राग-द्वेषाकरणेन अन्यथा अर्थस्य तत्त्वतो झरितत्वानुपपत्तेः ॥ १६९७ ॥ गाथा १६९६-१७०४ व्यवहारकरणविधिः ७८८ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582