________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः
७६७ (B)
सागारिकसेवी मैथुनप्रतिसेवी संवत्सरत्रयातिक्रमे योग्य उक्तः। सोऽप्येवमभीक्ष्णसागारिकसेवी सन् यावज्जीवं प्रतिषिद्धो द्रष्टव्यः। तस्यापि यावज्जीवमाचार्यत्वादीनि न कल्पन्ते इति भावः । तथा अवधावनसूत्रपञ्चकेऽपि यो भिक्षुसूत्रे निक्षेपणसूत्रद्वये च वर्षत्रयातिक्रमेण योग्य उक्तः सोऽपि यदि अभीक्ष्णमवधावनकारी भवति ततस्तस्यापि यावज्जीवमाचार्यत्वादिपदप्रतिषेधः ॥१६१९॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या
भिक्षुर्बहु श्रुतं सूत्रं यस्यासौ बहुश्रुतः। तथा बहुः आगमोऽर्थपरिज्ञानं यस्य स बह्वागमः। 3 सूत्र २३-२९ तथा कुलप्राप्तं गणप्राप्तं सङ्घप्राप्तं वा यत्सचित्तादिकं व्यवहारेण छेत्तव्यं कार्यं तथा आगाढागाढं गाथा
१६१७-१६१९ कारणं, तेषु आगाढागाढेषु कारणेषु बहुषु-प्रभूतेषु बहुश: अनेकप्रकारं मायी मायावान् मृषावादी अशुचिः आहाराद्यर्थमव्यवहारकारी पापजीवी कोण्टलाद्याजीवी तस्य यावज्जीवं
व्रतातिचारे तत्प्रत्ययं मायित्व-मुषावादित्वादिप्रत्ययं न कल्पते आचार्यत्वं वा यावद् गणावच्छेदित्वं पदाऽयोग्यत्वम् वा उद्देष्टुं वा अनुज्ञातुं स्वयं वा धारयितुम्। एष प्रथमसूत्रसझेपार्थः ।।
७६७ (B) एवं गणावच्छेदकसूत्रम् आचार्योपाध्यायसूत्रं च भावनीयम्। पाठोऽपि सुप्रतीतः ॥
बहुशो
For Private and Personal Use Only