Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 542
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७७३ (A) घुष्टे घोषिते सङ्घकार्ये सङ्घसमवाये धूलीजङ्घोऽपि, आस्तामन्य इत्यपि शब्दार्थः । धूल्या धूसरे जो यस्य स धूलीजङ्घः, शाकपार्थिवादिदर्शनात् मध्यपदलोपी समासः । सङ्घसमवायघोषणामाकर्ण्य प्राघूर्णकेनापि पादलग्नायामपि धूलावप्रमत्ततया त्वरितमवश्यमागन्तव्यम् इतिज्ञापनार्थं धूलीजङ्घोऽपीत्युपादानम्। सति बले यो न आगच्छेत् कुलसमवाये गणसमवाये सङ्घसमवाये वा स गुरुके चतुर्मासे लगति, तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः ॥१६३८॥ न केवलमेतत् किन्त्वन्यदपि तथा चाह- जं काहिंति इत्यादि, सति बले अगच्छन् व्यवहारोच्छेदे कार्यकारणतो वाऽन्यैरन्यथाछिन्ने व्यवहारे यदकार्यं ते व्यवहारार्थिनः करिष्यन्ति तत् प्राप्नोति, तन्निमित्तमपि प्रायश्चित्तं तस्यापद्यते इत्यर्थः । अन्यदपि चापमानवशतो यदवधावनादि कुर्यात् तदपि प्राप्नोति ॥ १६३९ ॥ तम्हा उ संघसद्दे, घुढे गंतव्व धूलिजंघेण। धूलीजंघनिमित्तं, ववहारो उट्ठितो सम्मं ॥ १६४० ॥ यत एवमनागमने दोषास्तस्मात्सङ्घशब्दे घुष्टे घोषिते धूलीजङ्घनाप्यवश्यं सति बले | गन्तव्यम्। यतः कदाचिद् धूलीजङ्घनिमित्तं व्यवहारः सम्यगुत्थितो भवेत् , यथा प्राघूर्णको गाथा १६३५-१६४२ व्यवहारकरणसामाचारी ७७३ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582