Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 497
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार- * सूत्रम् तृतीय उद्देश : ܀܀܀܀܀܀܀܀ ७५० (B) www.kobatirth.org ܀܀܀܀܀܀܀܀ Acharya Shri Kailassagarsuri Gyanmandir पदानुज्ञानात् तत एतत् श्रुत्वा मा अतिप्रसङ्गान्मैथुनं सेवित्वा अपूर्णे पर्याये गणं दास्यन्ति तत एतन्निवारणार्थमिदं सूत्रम् ॥ १५७८ ॥ अनेन सम्बन्धेनाऽऽयातस्याऽस्य व्याख्या भिक्षुर्गणात् अपक्रम्य मैथुनं प्रतिसेवेत ततस्तस्य त्रीणि संवत्सराणि यावत्तत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पते आचार्यत्वमुपाध्यायत्वं, यावत्करणात्प्रवर्तित्वं स्थविरत्वमिति परिग्रहः, गणावच्छेदित्वं वा उद्देष्टुम्, अनुज्ञातुम् । नापि तस्य कल्पते स्वयं धारयितुं, किन्तु त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते प्रवर्तितुमारब्धवति तच्च प्रस्थितत्वमभिमुखीभवनमात्रेऽपि भवति तत आह- उत्थिते प्रवर्त्तमाने स्थितस्य वर्तमानस्य, किं विशिष्ट स्य सत: ? इत्याह- उपशान्तस्य उपशान्तवेदोदयस्य तच्चोपशान्तत्वं प्रवृत्तिनिषेधादवसीयते तत आह- उपरतस्य मैथुनप्रवृत्तेः प्रतिनिवृत्तस्य । तच्च प्रतिनिवृत्तत्वं * दाक्षिण्यभयादिमात्रतोऽपि भवति तत आह- मैथुनेच्छाप्रातिकूल्येन विरतः प्रतिविरतः तस्य । तदपि च प्रतिविरतत्वं विकारादर्शनतो लक्ष्यते तत आह— निर्विकारस्य लेशतोऽपि मैथुनाभिलाषहेतुकविकाररहितस्य । एवम्भूतस्य से तस्य कल्पते आचार्यत्वं यावद् गणावच्छेदित्वं वा उद्देष्टुं वा धारयितुं वा एष सूत्रसंक्षेपार्थः, व्यासार्थं तु भावतो भाष्यकृदाह १. ०ण्यवशादिमा० वा. पु. मु. ॥ For Private and Personal Use Only ܀܀܀܀܀܀ गाथा १५७७-१५८२ अब्रह्मरक्षणोपायादिः ७५० (B)

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582