________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७५१ (A)
दुविहो साविक्खियरो, निरवेक्खो उदिण्णे जाअऽणापुच्छा १। जोगं च अकाऊणं २, जो व सदेसादि सेवेजा३ ॥ १५७९ ॥
द्विविधो द्विप्रकारः खलु मैथुनसेवकः । तद्यथा- सापेक्ष इतरश्च। इतरो निरपेक्षः। तत्र | निरपेक्षो य उदीर्णे वेदे याति अपगच्छत्यनापृच्छया१, यो वा यति: योगं यतनया योगमकृत्वा यदि वा सदेश्यादिकां सेवेत३ । एष त्रिविधोऽपि निरपेक्षः, गुरुतीर्थकरापेक्षारहितत्वात् ॥१५७९॥
सावेक्खो उ उदिण्णे, आपुच्छे गुरुं तु सो जति उवेहे। तो उ गुरुगा भवंती, सो य अणापुच्छ जइ गच्छे ॥ १५८० ॥
यदि(यः) पुनः उदीर्णे उदयप्राप्ते मोहे, उदिते वेदे इत्यर्थः, गुरुमापृच्छति स सापेक्षः। सह अपेक्षा गुर्वपेक्षा यस्यास्ति स सापेक्ष इति व्युत्पत्तेः। तत्राऽऽपृच्छायां यदि स गुरुः उपेक्षते उपेक्षां कुरुते ततस्तस्य प्रायश्चित्तं चतुर्गुरुका भवन्ति। स च साधुरनापृच्छ्य गुरुं यदि याति तर्हि तस्यापि प्रायश्चित्तं चतुर्गुरुकाः ॥१५८०॥ १. जातऽणा ला. ॥ २. स वेसादि-ला.॥ ३. स वै० मु.॥
गाथा ४१५७७-१५८२
अब्रह्मरक्षणोपायादिः
७५१ (A)
For Private and Personal Use Only