________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार- *
सूत्रम्
तृतीय उद्देश :
܀܀܀܀܀܀܀܀
७५० (B)
www.kobatirth.org
܀܀܀܀܀܀܀܀
Acharya Shri Kailassagarsuri Gyanmandir
पदानुज्ञानात् तत एतत् श्रुत्वा मा अतिप्रसङ्गान्मैथुनं सेवित्वा अपूर्णे पर्याये गणं दास्यन्ति तत एतन्निवारणार्थमिदं सूत्रम् ॥ १५७८ ॥ अनेन सम्बन्धेनाऽऽयातस्याऽस्य व्याख्या
भिक्षुर्गणात् अपक्रम्य मैथुनं प्रतिसेवेत ततस्तस्य त्रीणि संवत्सराणि यावत्तत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पते आचार्यत्वमुपाध्यायत्वं, यावत्करणात्प्रवर्तित्वं स्थविरत्वमिति परिग्रहः, गणावच्छेदित्वं वा उद्देष्टुम्, अनुज्ञातुम् । नापि तस्य कल्पते स्वयं धारयितुं, किन्तु त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते प्रवर्तितुमारब्धवति तच्च प्रस्थितत्वमभिमुखीभवनमात्रेऽपि भवति तत आह- उत्थिते प्रवर्त्तमाने स्थितस्य वर्तमानस्य, किं विशिष्ट स्य सत: ? इत्याह- उपशान्तस्य उपशान्तवेदोदयस्य तच्चोपशान्तत्वं प्रवृत्तिनिषेधादवसीयते तत आह- उपरतस्य मैथुनप्रवृत्तेः प्रतिनिवृत्तस्य । तच्च प्रतिनिवृत्तत्वं * दाक्षिण्यभयादिमात्रतोऽपि भवति तत आह- मैथुनेच्छाप्रातिकूल्येन विरतः प्रतिविरतः तस्य । तदपि च प्रतिविरतत्वं विकारादर्शनतो लक्ष्यते तत आह— निर्विकारस्य लेशतोऽपि मैथुनाभिलाषहेतुकविकाररहितस्य । एवम्भूतस्य से तस्य कल्पते आचार्यत्वं यावद् गणावच्छेदित्वं वा उद्देष्टुं वा धारयितुं वा एष सूत्रसंक्षेपार्थः, व्यासार्थं तु भावतो भाष्यकृदाह
१. ०ण्यवशादिमा० वा. पु. मु. ॥
For Private and Personal Use Only
܀܀܀܀܀܀
गाथा १५७७-१५८२
अब्रह्मरक्षणोपायादिः
७५० (B)