Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
226
यतो द्रुतमेव स्वयमात्मान मानवतां मा लक्ष्मी. शोभा च तया तस्यां वा नवतां नवीनतां नयामो देहसौन्दर्यमाश्रयामस्तथा मानवतां मनुष्यभावं गच्छामः ||२२||
सारमित्यादि - अहन्तु काव्यमेव त्रिविष्टपं स्वर्गमुपैमि यत इदं सारं कृतीष्टं सारं सर्वोपयोगि भवत् कृतिभिर्बुद्धिमद्भिरिष्टमभिलषितं पक्षे रलयोरभेदात्-अलंकृतिभिरुपमाद्यलङ्कारैः सहितं तत इष्टं च । सुराणां देवानां सार्थेन समूहेन रम्यं पक्षे सुरसो रससहितो योऽर्थस्तेन रम्यं रमणीयं यतः विपदो विपत्तेर्ये लवा अंशास्तेषामभावो विनाशस्तत्तया पक्षे विकृतानां पदानां ये लवास्ते विपल्लवा पदस्य पदित्यादेशात् । तेषामभावतयाऽभिगम्यमनुमननीयम्। समुल्लसन्तीनां कल्पलतानां पक्षे समुल्लसन्तो ये कल्पा विचारास्तेषां परम्परास्तासामेकस्तन्तुर्यत्र तत् । श्लेषोपमालङ्कार ||२३|| हारायत इत्यादि अथ किन्तु उत्तमं च तद् वृत्तं छन्द एव मुक्ता मौक्तिकं सा कीदृशी भवति या सूत्रस्य पूर्वपरम्परागतवृद्धवचनस्य सार उपयोगिभागस्तमनुगच्छति वर्णयति सा । पक्षे सूत्रं दोरकं तस्य सारमनुसरति सोऽधिकारो यस्यास्साऽतएवोदारा ऽसंकीर्णा ततश्च सत्पुरुषैः कण्ठीकृता कण्ठस्थाने धारितोद्घोषिता च सा हारायते हारवदाचरति । समन्ताद्भद्रं कुशलं तस्मै समस्तु भवतु हारपक्षे समन्तभद्राय एतन्नानामाचार्यायैव समस्तु समर्पणमस्तु ॥ २४ ॥
किलेत्यादि - अकलंकस्याचार्यस्यार्थमभिप्रायमभिष्टुवन्ती नामाभिव्यञ्जयन्ती समन्ततः सर्वत्र कौ पृथिव्यामतएव मुदं हर्षमेधयन्ती नोऽस्माकं च तिमिरमज्ञानाख्यं निरस्य दूरीकृत्य सा प्रभाचन्द्रमहाशयस्य सुमञ्जुर्मृदुतमा याऽसौ वाक् सा जीयात् । यद्वा वसं कृत्वा प्रभाशब्दस्य विशेषणं कर्तव्यं चन्द्रमहाशयस्य प्रभापि अकलङ्कार्थमभिष्टुवन्ती कुमुदानां समूहं चैधयन्ती किलास्ति । लङ्कानां व्यभिचारिणीनामर्थो लङ्कार्थः, अकोऽघकरश्चासौ लङ्कार्थश्च तम् ॥२५॥
नव्याकृतिरित्यादि - भो सुचित् शोभनचिद् धीर्यस्य तस्य सम्बोधनं त्वं शृणु तावत् वक्तव्यतो वचनमात्रादपि किं पुनरर्थात् अलंकृतिभ्य उपमाद्यलंकारेभ्यो दूरा । वृत्तिश्चेष्टा यस्य तस्य वृत्ताधिकारेष्वपि च्छन्दःशास्त्रेष्वपि च न प्रवृत्तिर्यस्य तस्य मे मम व्याकृतिर्व्याकरणमपि नास्ति कवित्वन्तु पुनः कुतः सम्भवतात्तत्पूर्वकत्वात्तस्य । तथा च वक्तव्यतोऽलं यतः कृतिभ्यः सभ्यजनेभ्यो दूरवृत्तेः पराङ्मुखस्य वृत्ताधिकारेष्वाचरणशास्त्रेष्वपि प्रवृत्तिहीनस्य में कृतिश्चेष्टा । नव्या वृद्धजनासम्मता, कवित्वमात्मवित्त्वं तु पुनः कुतः सम्भवतान्नैव सम्भवेदिति ॥२६॥
सुवर्णमृर्तिरित्यादि - इयं कविता भार्येव कुलवधूसदृशी यत आर्या प्रशंसनीया सद्भिः सुवर्णस्य मूर्तिरिव मूर्तिः शरीरं यस्याः, पक्षे शोभनानां वर्णानां ककारादीनां मूर्तिः । लसन् शोभनः पदयोर्न्यासो गमनं यस्याः पक्षे लसतां पदानां सुप्तिङन्तानां न्यासः संकलनं यत्र सा तत्तया, तथा चालंकारणां नूपुरादीनां पक्षे रूपकादीनां सम्भारवतीति हेतोः कारणादपीतो भूतले जनस्य चेतो हृदयमनुगृह्णाति सम्मोहयति ॥२७॥
तम इत्यादि
कवेः कृतिरिन्दुरुचिरिव ज्योत्स्नासदृशी भवति यतोऽसौ तमोऽज्ञानमन्धकार च धुनाना संहरन्ती किञ्च सुधाया अमृतस्याथवा तद्विधानं यस्याः कौमुदं यद्वा कौमुदमादधाना प्रसारयन्ती जनानामाह्लादनाय सुखाय, किन्तु सैव जडजायाज्ञपुत्राय कमलाय च नानाव्यथाकरी स्यादेव ॥२८॥
सार्द्धेत्यादि - अथ प्रकृतिविषयं प्रतिपादयितुमाह - अद्यदिनादेतत्समयात् सार्द्धद्विवर्षायुतपूर्वं अर्धतृतीयसहस्रवर्षपूर्वं समयं प्रपद्येह भुवस्तलेऽस्मिन् पृथिवी - मण्डले खलु या कापि रूपरेखाऽऽसीत् जनानां प्रवृत्तिरभूत्तामेवामुतो लेखान्निम्नाङ्कितादनुविन्देज्जानीयाज्जनः ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388