Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
सरररर रररर|225ररररररररररररर
सुवृत्तभावेनेत्यादि - सन्तो ये सत्पुरुषा भवन्ति ते सुवृत्तभावेन सच्चरित्रत्वेन समुल्लसन्तो हर्षयुक्तं यथा स्यात्तथा भवन्तो जनस्य सर्वसाधारणस्य गुणमेवानुभवन्ति जानन्ति, ते न तु तस्य दोषं कदाचिदपि, अतएव ते मुक्ताफलत्वं मुक्तं च तदफलत्वं च तन्मुक्ताफलत्वं सफलत्वमित्यर्थस्तथा च मौक्ति कत्वं प्रतिपादयन्तः सन्ति मौक्तिकमपि वर्तुलं भवत् गुणं सूत्रमनुभवति तत्तस्मादेव कारणादहं तत्र सत्पुरुषेषु आदरित्वं विनीतभावं प्रवहामि । श्लेषोपमा ॥१४॥
साधारित्यादि-साधो: सत्पुरुषस्य विनिर्माणविधावुत्पादनकाले विधातुर्नामकर्मणःकराद्धस्ततो या तूत्करसम्विधा निस्सारांशततिश्च्युता पतिता तयैवामी अन्ये उपकारिणः श्रीचन्दनाद्या ये जगति दृश्यन्ते चन्दननदीचन्द्रप्रमुखास्ते जाता इतीवाहं मन्ये । उत्प्रेक्षालङ्कारोऽयम् ॥१५॥
साधुरित्यादि - साधुः सज्जनः स गुणस्य ग्राहकोऽतएवैष तु पुनरास्तां तावत्, किन्तु मम तु याः का अपि श्लाघास्तास्तास्सर्वाः, सर्वप्रियप्रायतया सर्वाङ्गसुन्दरत्वेनोदितस्य प्रबन्धस्य यं कञ्चिदपि प्रमादादिनाऽवशिष्टं दोषं तं ततः समुद्घाट्य वरंकरस्यास्माकमनुकूलमाचरतोऽसत एव सन्तु ॥१६।।
सद्कुराणामित्यादि - नुर्मनुष्यस्य गीर्वाणी सा कामधेनुर्गौरिव सा चेह सतां सभ्यपुरुषाणामङ्कुराः कृपारूपास्तथा सन्तश्च तेऽङ्कुराश्च तृणानि तेषां समुपायने समागमे सति यथा पुष्टा भवति तथैव सा खलस्य दुष्टस्य तिलविकारस्य च शीलनेन समागमेन पयस्विनी सरसा दुग्धदात्री भवतीत्यनेन हेतुना तस्य खलस्यैवोपयोगो महानस्तु ॥१७॥
कर्णेजयमित्यादि - हे विधे, यत्किल त्वं कर्णेजपं पिशुनं कृतवानभूः करोषि स्म तदेतदपि ते पटुत्वं चातुर्यं विचारकारित्वमेवास्ति यतोऽनेन दुर्जननिर्माणकरणेन साधो भावः मनुष्यत्वं सफलोऽभूत् सर्वसाधारणानां दृष्टौ तस्य समादरणमभूत्, तमपेक्ष्यैव यदिह तम ऋतेऽन्धकाराभावे रवेरपि प्रभावः क्व तावत्स्यात् ॥१८॥
अनेकधान्येष्वित्यादि - स एष पिशुनो धूर्तस्य आखोर्मूषकस्य सजातिः समान एव भाति, मूषकोऽनेकेषु धान्येषु विपत्तिकारी तथाऽयमप्यनेकधा बहुप्रकारेणान्येषुजनेषु विपत्तिं करोति । मूषको निष्कपटस्य बहुमूल्यस्य बस्रस्यारिर्विनाशक: पिशुनो निष्कपटस्य सरलमनुष्यस्यारिभवति । मूषकश्छिद्रं बिलं निरूप्य दृष्टवा स्थितिमादधाति पिशुनश्छिद्रं पश्यति दोषं समीक्षते तावत् ॥१९॥
य इत्यादि - हे ईश ! काकारिलोकस्योलूकस्य खलस्य च परस्परं कोऽसौ विशेषो भेदस्स्यादित्यहं न जाने यतोऽसौ दोषायां रात्रौ दोषेषु वाऽनुरक्तः तथा दिने वा काव्ये वाशब्दोऽत्रेवार्थे । प्रतिभासमाने प्रकाश रूपे प्रतिभया वा समाने सम्माननीयेऽसौ मालिन्यं सान्धकारतां दुष्प्रेक्षतामेवाभ्येति । अहो आश्चर्याभिव्यक्तयेऽत्र ॥२०॥
खलस्येत्यादि - खलस्य हृद् हृदयं तन्नक्तमिव रात्रिवदघवस्तु पापकारि भवति, तु पुनः सतः सभ्यस्य तदेव वासरवद् दिवसतुल्यं प्रकाशकृत् तयोर्द्वयोर्मध्यं सायंकालमिवोपेत्य गत्वा तदेतत्काव्यं नाम वस्तु जनानामनुरञ्जनाय प्रीत्युत्पत्तये भवत्वेव ॥२१॥
रसायनमित्यादि - हे बुधा भवन्तः शृण्वन्तु तावद् ये खलु विबुधा देवास्ते पीयूषं नामामृतमीयुर्गच्च्छेयुर्विबुधत्वाद् बुद्धिहीनत्वादेव यतो यत्सेवनेनाद्यापि तेऽनिमेषभावादनिमेषनामाऽऽमयात् पिचुकाख्यात् नोऽपयान्ति न निवर्तन्ते। वयन्तु पुनः काव्यमेव रसायनं रसानां शृङ्गारादीनामयनं स्थानं वर्त्म वा तदेव रसायनं कायकल्पकारि भेषजमाश्रयामो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388