Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 324
________________ crrrrrrrrrrrrrrr Q231rrrrrrrrrrrrrrrr वाणिक्पथ इत्यादि - यस्य पुरस्य वाणिक्पथो विपणि-प्रदेशोऽपि स इति निम्नप्रकारेण काव्यस्य तुला समानतामुपैति, यतः श्रीमान् सम्पत्तिमान् पक्षे शृङ्गारादिरसस्य शोभावान् असंकीर्णा पदानांपादविक्षेपाणां प्रणीतिर्गिसरणियंत्र, पक्षे पदानां सुप्तिङन्तानां प्रणीति: सुरचना । अनेकैरर्थानां गुडादीनां गुणैः सुरीतिं सत्प्रथां पक्षेऽनेकेऽर्था वाच्या येषां पदानां तेऽनेकार्थास्तेषां गुणैः प्रसादादिभिः शोभनां गौडीत्यादिरीतिं समादधत् स्वीकुर्वाणः, तथा निष्कपटानां प्रशंसनीयबहुमूल्यवस्त्राणामौर्णनाभादिप्रभवाणां प्रतीतिं समुचितनीति,पक्षे निष्कपटा कपटवर्जिताऽसौ या प्रतीतिर्युत्पत्तिस्तां सरलतया निश्छलार्थज्ञानोत्पत्तिं समादधत् किलेत्यतः ॥२६।। रात्रावित्यादि - रात्रावन्धकार - बहुलायां यस्य वणिक्मथस्याघ्रं गगनप्रान्तं लिहति स्पृशतीत्यभ्रं लिहो योऽसौ शालो वप्रस्तस्य शृङ्गे प्रान्तभागे समाश्रितो लग्नः सन् भानां नक्षत्राणां गणः समूहः स चाभङ्गो यावद् रात्रिः अपि न भ्रष्टतामेति यः स स्फुरतां भासुरस्वभावानां प्रदीपानामुत्सवतामनुपतति स्वीकरोतीत्यनुपाती योऽसौ सम्वादो जनानामै कमत्येन स्वीकारस्तमतएवनन्दकरं प्रसन्नतोत्पादकं दधाति ॥२७॥ ___ अधःकृत इत्यादि - यन्नगरं तस्य शालस्याग्रतो या खातिका तस्या अम्भसि सुविशदे जले याच्छवि: स्वकीयाऽऽकृतिस्तस्या दम्भजातिःकपटप्रबन्धो यस्य तत् कर्तृ। नागलोकोऽध:कृतोऽमाकमपेक्षया नीचैः स्थितस्तिरस्कृत इति वा सन् भवन्नपि, पुनरथ सोऽसावहीनानामुत्तमाङ्गभृतामोकः प्राणिनां स्थानं कुतः कस्मात् कारणादस्तु यश्चाहीनामङ्गभृतां शेषादिसर्पमुख्यानां स्थानमस्त्येवेति किलाहो एवं कृतकोपतया तं नागलोकं जेतुमिव प्रयाति। श्लेषमिश्रितोत्प्रेक्षालङ्कारः ॥२८॥ समुल्लसन्नित्यादि - समुल्लसन्तः प्रकटतामाश्रयन्तो ये नीलमणयस्तेषां प्रभाभिः कान्तिभिः समङ्किते व्याप्ते यस्य नगरस्य वरणे प्राकारे राहोीभ्रम उत्पद्यते रविमनसि अनेनैव तु हेतुना रविरयं सूर्यः साचि सवक्रिमपरिणामं तथा स्यात्तथा कदाचिदुदीचीमुत्तराशामथवाऽपि पुनरवाची दक्षिणदिशां श्रयति, रवे: सहजमेव दक्षिणायनोत्तरायणतया गमनं भवति तदिह राहुभ्रान्तिकारणकं प्रपिपद्यतेऽतो भ्रान्तिहेतुकोत्प्रेक्षालङ्कारः । अथवाशब्दो वर्णनान्तरार्थः ।।२९।। ___ यत्खातिकेत्यादि - शनैश्चरन्तो मन्दतया गच्छन्तोऽपि च निनादिनो गर्जनशीला एवमुदारा अक्षुद्रा ये वारिमुचो मेघास्ते यत्खातिकावारिणि यन्नगरस्य खातिकाया निर्मले नीरे प्रतिमावतारात् स्वकीयप्रतिच्छविप्रदानाद् वारणानां जलगजानां शङ्कामनुसन्दधाना लसन्ति समुत्पादयन्तो वर्तन्ते । भ्रान्तिमदलङ्कारः ॥३०॥ तत्रत्येत्यादि - तत्र भवतीति तत्रत्यो यो नारीणां जनः समूहस्तस्य धूतैः पुनीतैः पादैश्चरणैः कीदृशैरिति चेद् रते: कामदेवस्त्रिया अपि मूर्ध्नि मस्तके लसति शोभते प्रसादोऽनुग्रहकरणं येषां तैस्तादृशैरस्माकं तुला तुल्यता स्यादितीयं यस्मात् कारणात् कठिना समस्या, यतोऽस्माकं तु स्थिगिस्तावद्रतिदेवताया अपि पादयोरेव भवतीति तापादिव मन:खेदात् किल पद्यानि कमलपुष्पाणि यस्याः खातिकाया वारि जले लुठन्ति 'वारि कं पयोऽम्भोऽम्बु। इति धनञ्जयोकत्या वाः शब्दोऽपि जलवाचको वर्तते यस्य सप्तम्येकवचनं वारि ॥३१॥ एतस्येत्यादि - एतस्य नगरस्य वप्रः प्राकारः सशृङ्गाणां शिखाराणामग्रस्य प्रान्तभागस्य रत्नेभ्यः प्रभवति समुत्पद्यते या रूचिः कान्ति स्तस्याः स्रक्परम्परा यत्र स तादृक् हे सुरालय देवावास, त्वमेतस्यास्माकं जन्मदातुः सौधपदानि धनिनां स्थानानि तान्येवामृतस्थानानि पश्य । सुधाया अमृतपर्यायत्वात्सुधासञ्जातानि सुधोत्पादकानि वा सौधानि इति । त्वम् तु पुनः सुराया मदिराया आलयः, पुनरपि कथं कस्मात् कारणादस्योर्ध्व वर्तस इत्येवं प्रकारेणाजस्रं निरन्तरं यथा स्यात्तथा प्रहसतीव किल । शब्दार्थपरावत्ति तकोत्प्रेक्षालङ्कार ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388