Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 346
________________ murrrrrrrrrr253 carrrrrrrrr लोकेत्यादि - स भगवान् महावीरः, लोकत्रयमुद्योतयति प्रकाशयतीति लोकत्रयोद्योति तत एवं पवित्रं यद्वित्तीनां ज्ञानानां मतिश्रुतावधिनाम्नां त्रयं तेन हेतुना गर्भेऽपि किलोपपत्या सहितः सोपपत्तिर्माहात्म्यवानेवाऽऽसीदिति । अत एव स घनानां मेघानां मध्ये आच्छन्नः समावृतो यः पयोजानां कमलानां बन्धुः सूर्यः स इव स्वोचितस्य धाम्नस्तेजसः सिन्धुः समुद्रोऽर्थात्खनिराबभौ शशभे ॥ ९ ॥ पयोधरेत्यादि - इह भुवि संसारे बन्धूनां धात्री भूरिवाधारभूताऽत एवोत्त्मस्य पुण्यस्य पात्री तस्यास्त्रिशलाया यथा पयोधरयोः स्तनयोरुल्लास: समुन्नतिभाव आविरास सम्बभूव, तथा मुख मेवेन्दुश्चन्द्रः स च पुनीताया निर्दोषाया भासो दीप्ते: स्थानमाधिकरणं बभूवेत्येद्विचित्रमभूतपूर्वम, यतोऽत्र पयोधराणां मेघानामुल्लासे चन्द्रमसो दीप्तिाहाणिरेव सम्भवतीति । विरोधाभासः ॥ १० ॥ ___कवित्ववृत्त्येत्यादि-कवित्वस्य वृत्तिः कवित्ववृत्तिस्तया कविव्यवहारेण उदितः।वस्तुतस्तु जिनराजमातुरहज्जनन्या जातुकदाचिदपिकोऽपि विकार:देहविपरिणामो नासीत्र बभूव । तत्रार्थान्तरेण हेतुमाहमरुतः पवनस्यदीपिकायामधिकारो निर्वापणादिः स्यात्, किन्तु तथा विद्युतस्यडितोऽतिचारः क ? अर्थात्पवनो दीपिका निर्वापयितुं समर्थः, किन्तु विद्युनिर्वापणे तस्य शक्तिर्नास्तीति भावः ॥ ११ ॥ विभ्भत इत्यादि - इदानी बसन्तकाले श्रीयुक्तो नमुचिः कामदेवः प्रचण्डः सन्ननिवार्यतया विजृम्भतेऽथवा नमुचिनामा दैत्यो विजयते । अंशुः सूर्यः कुबेरदिश्युत्तरस्यामवाप्तदण्डः संल्लब्धमार्गसरणिरथवा समावाप्तापराध: । अदितिः पुनः पृथ्वी देवमाता च लोकोक्तौ सा समन्तात् सर्वत एवमधुना पुष्पपरागेण मधुनाम दैत्येन च विद्धं व्याप्तं धाम स्थानं यस्या सा समस्तीति किलायं कालः सुरभिरीदृङ् नाम यस्य स वसन्ततुरेव सुरेभ्यो भीतिर्यत्र स सुरभीतिः किलेत्येवंनामा सजायत इति । समासोक्तिः ॥ १२ ॥ परागेत्यादि - अनङ्गस्य कामस्यैकोऽनन्यः सखा हितकर्ता मधुर्नाम वसन्तर्तुः स च मानी सम्मानयोग्यो भवन् यो धनी भर्ता वन्य एव जन्यः स्त्रियस्तासां मुखानि, अवलोकनस्थानानि प्रसिद्धानि । पराग एव नीर तेनोद्भरितैः परिपूर्णै: प्रसूनैरेव श्रृङ्गैजलोक्षणयन्त्रैहेतुभूतैर्मरुद्वायुरेव करस्तेन प्रयोगेणोक्षति सन्तर्पयत्यभिषिञ्चतीत्यर्थः । अनुप्रासपूर्वको रूपकालङ्कारः । नाम वाक्यालङ्कारे ॥ १३ ॥ वन्येत्यादि - इदानीं वन्या वनस्थल्या साधं मधोर्वसन्तस्य पाणिधृतिः पाणिग्रहणं विवाहः सम्भवति त्तस्मादेव कारणात् पुंस्कोकिलैः कीदृशैर्विषु पक्षिपु प्रवरैमुख्यैः मिष्टसम्भाषणत्वात्तैरेव विप्रवरैर्ब्राह्मणोत्तमैः पुनरिदानीं यदुक्तं तत्सूक्तं पाणिग्रहणकारिकाणामृचां पठनमतः सूक्तं सुष्ठूक्तमस्ति । स्मरः काम एवाक्षीणो हविर्भुगग्निः सततं सन्तापकत्वादेव साक्षी प्रमाणभूतोऽत्र कार्ये । अलीनां भ्रमराणां निनादस्य गुञ्जनस्य देशो लेशः स एव भेरीनिवेशो मङ्गलवाद्यविशेषः सम्भावनीयस्तावत् ॥ १४ ॥ .. प्रत्येतीत्यादि - सर्वसाधारणः पथिकादिरयं वृक्षोऽशोकः शोकं न ददाति किलेत्यभिधया नाम्ना प्रत्येति विश्वासं करोति । अथ पुनरारक्तानि लोहितानि फल्लानि प्रसनान्येवाक्षीणि यस्य तत्तयेक्षितो रोषारुणविस्फालितलोचनैरवलोकितः सन् स एव जनः खलु दराणां पत्राणामेको धाता संधारकोऽथवा दरस्य भयस्यैकोऽनन्यो धाता सम्पादक इत्यनुमन्यमानोऽनुमानविषयं कुर्वाणस्तस्य कुजातितां को मेर्जातिः सम्भूतिर्यस्य तत्तां किलाकुलीनतां किमुत न पश्यति पश्यत्येवेति । अन्योक्तिरलङ्कार ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388