________________
murrrrrrrrrr253 carrrrrrrrr
लोकेत्यादि - स भगवान् महावीरः, लोकत्रयमुद्योतयति प्रकाशयतीति लोकत्रयोद्योति तत एवं पवित्रं यद्वित्तीनां ज्ञानानां मतिश्रुतावधिनाम्नां त्रयं तेन हेतुना गर्भेऽपि किलोपपत्या सहितः सोपपत्तिर्माहात्म्यवानेवाऽऽसीदिति । अत एव स घनानां मेघानां मध्ये आच्छन्नः समावृतो यः पयोजानां कमलानां बन्धुः सूर्यः स इव स्वोचितस्य धाम्नस्तेजसः सिन्धुः समुद्रोऽर्थात्खनिराबभौ शशभे ॥ ९ ॥
पयोधरेत्यादि - इह भुवि संसारे बन्धूनां धात्री भूरिवाधारभूताऽत एवोत्त्मस्य पुण्यस्य पात्री तस्यास्त्रिशलाया यथा पयोधरयोः स्तनयोरुल्लास: समुन्नतिभाव आविरास सम्बभूव, तथा मुख मेवेन्दुश्चन्द्रः स च पुनीताया निर्दोषाया भासो दीप्ते: स्थानमाधिकरणं बभूवेत्येद्विचित्रमभूतपूर्वम, यतोऽत्र पयोधराणां मेघानामुल्लासे चन्द्रमसो दीप्तिाहाणिरेव सम्भवतीति । विरोधाभासः ॥ १० ॥ ___कवित्ववृत्त्येत्यादि-कवित्वस्य वृत्तिः कवित्ववृत्तिस्तया कविव्यवहारेण उदितः।वस्तुतस्तु जिनराजमातुरहज्जनन्या जातुकदाचिदपिकोऽपि विकार:देहविपरिणामो नासीत्र बभूव । तत्रार्थान्तरेण हेतुमाहमरुतः पवनस्यदीपिकायामधिकारो निर्वापणादिः स्यात्, किन्तु तथा विद्युतस्यडितोऽतिचारः क ? अर्थात्पवनो दीपिका निर्वापयितुं समर्थः, किन्तु विद्युनिर्वापणे तस्य शक्तिर्नास्तीति भावः ॥ ११ ॥
विभ्भत इत्यादि - इदानी बसन्तकाले श्रीयुक्तो नमुचिः कामदेवः प्रचण्डः सन्ननिवार्यतया विजृम्भतेऽथवा नमुचिनामा दैत्यो विजयते । अंशुः सूर्यः कुबेरदिश्युत्तरस्यामवाप्तदण्डः संल्लब्धमार्गसरणिरथवा समावाप्तापराध: । अदितिः पुनः पृथ्वी देवमाता च लोकोक्तौ सा समन्तात् सर्वत एवमधुना पुष्पपरागेण मधुनाम दैत्येन च विद्धं व्याप्तं धाम स्थानं यस्या सा समस्तीति किलायं कालः सुरभिरीदृङ् नाम यस्य स वसन्ततुरेव सुरेभ्यो भीतिर्यत्र स सुरभीतिः किलेत्येवंनामा सजायत इति । समासोक्तिः ॥ १२ ॥
परागेत्यादि - अनङ्गस्य कामस्यैकोऽनन्यः सखा हितकर्ता मधुर्नाम वसन्तर्तुः स च मानी सम्मानयोग्यो भवन् यो धनी भर्ता वन्य एव जन्यः स्त्रियस्तासां मुखानि, अवलोकनस्थानानि प्रसिद्धानि । पराग एव नीर तेनोद्भरितैः परिपूर्णै: प्रसूनैरेव श्रृङ्गैजलोक्षणयन्त्रैहेतुभूतैर्मरुद्वायुरेव करस्तेन प्रयोगेणोक्षति सन्तर्पयत्यभिषिञ्चतीत्यर्थः । अनुप्रासपूर्वको रूपकालङ्कारः । नाम वाक्यालङ्कारे ॥ १३ ॥
वन्येत्यादि - इदानीं वन्या वनस्थल्या साधं मधोर्वसन्तस्य पाणिधृतिः पाणिग्रहणं विवाहः सम्भवति त्तस्मादेव कारणात् पुंस्कोकिलैः कीदृशैर्विषु पक्षिपु प्रवरैमुख्यैः मिष्टसम्भाषणत्वात्तैरेव विप्रवरैर्ब्राह्मणोत्तमैः पुनरिदानीं यदुक्तं तत्सूक्तं पाणिग्रहणकारिकाणामृचां पठनमतः सूक्तं सुष्ठूक्तमस्ति । स्मरः काम एवाक्षीणो हविर्भुगग्निः सततं सन्तापकत्वादेव साक्षी प्रमाणभूतोऽत्र कार्ये । अलीनां भ्रमराणां निनादस्य गुञ्जनस्य देशो लेशः स एव भेरीनिवेशो मङ्गलवाद्यविशेषः सम्भावनीयस्तावत् ॥ १४ ॥ ..
प्रत्येतीत्यादि - सर्वसाधारणः पथिकादिरयं वृक्षोऽशोकः शोकं न ददाति किलेत्यभिधया नाम्ना प्रत्येति विश्वासं करोति । अथ पुनरारक्तानि लोहितानि फल्लानि प्रसनान्येवाक्षीणि यस्य तत्तयेक्षितो रोषारुणविस्फालितलोचनैरवलोकितः सन् स एव जनः खलु दराणां पत्राणामेको धाता संधारकोऽथवा दरस्य भयस्यैकोऽनन्यो धाता सम्पादक इत्यनुमन्यमानोऽनुमानविषयं कुर्वाणस्तस्य कुजातितां को मेर्जातिः सम्भूतिर्यस्य तत्तां किलाकुलीनतां किमुत न पश्यति पश्यत्येवेति । अन्योक्तिरलङ्कार ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org